________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
६४१
देवदत्ताय शतं धारयतीत्येवमादि वक्तुं न लभ्यते । ये तु भ्रातरः समानकार्याः सर्वे च तुल्यव्यवहारिणस्तेषामन्यतरेणापि गोपश्वादिविक्रयो गृहादिवन्धनप्रयोगादि च क्रियमाणं सिध्यति । संबन्धित्वाय व्यवहारशब्दः सर्वव्यवहारग्रहणार्थः । प्रकरणादृणव्यवहार एव स्यात् ॥ १६४ ॥
सत्या न भाषा भवति यद्यपि स्यात्प्रतिष्ठिता । धर्मान्नियताद्व्यावहारिकात् ॥ १६५ ॥
कस्यचिदनुष्ठेयस्यार्थस्य प्रतिपादकः शब्दो भाषा । सामान्येन भवति योऽर्थस्तया प्रतिपाद्यते सोऽनुष्ठेयः। किं सर्वा विभाषा न सत्या । नेत्याह । बहिश्रेद्धर्माद्धर्मबाह्यं यदुच्यते शास्त्राचारविरुद्धं पञ्चकादधिका वृद्धिः भार्यापत्य विक्रयादिरन्वयिनः सर्वस्वदानमित्येवमादि । यद्यपि स्यात्प्रतिष्ठिताः पत्रलिखिताः प्रतिभुवो वा दत्तास्तथापि न सिध्यन्ति । १० व्यावहारिको धर्म आचारनिरूढो नियतोऽनादिर्नेदानींतनः । पूर्वशेषं चैतत् । अस्वतन्त्राप्रकृतिस्थैः कृतं दानाद्यनिश्चितमिति न प्रमाणम् ॥ १६५ ॥
योगाधमनविक्रीतं योगदानप्रतिग्रहम् ॥
यत्र वाऽप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् ॥ १६६ ॥
योगः छद्म । तेन यदौ बन्धकार्पणं कृतमिति । एतच्च ज्ञायते असत्यकार्येण कृतं १५ तद्राजा विनिवर्तयेत् । कश्चिद्धनिकेनोपरुध्यमान आह न किंचिदस्तीति मे । ननु क्षेत्रे स्थण्डिले वा दत्तमिति तद॑र्पयेत्यनया शङ्कया सुत्हैत्स्वजनाय कस्मैचिदसावाधानीकरोति । तत आह । तदन्यस्य मया बन्धकीकृतमिति । एतच्च ज्ञायते । सत्यपि प्रकाशलेख्ये तस्य आधातृतायोगात् । यदि हि परमार्थतयाऽऽधित्वेन कृतं कथमाधानैव भुङ्ग इति । एवंविधं योगावापनमप्रमाणीकृत्य धनिने क्षेत्रादि दापयितव्योऽधमर्णः । यस्य चान्येना- २० गमेन स्वाम्यं धर्नदानकाल आगमान्तरेण करणं करोति तदपि योगावापनम् । तत्राधमर्णो यस्य वानेनागनेन स्वाम्यं दण्डितः सत्यमागमं कारयितव्यः । एवं विक्रयादि । ग्रंथांतरपाटव योऽल्पेन मूल्येन महार्थमर्थज्ञो विक्रीणीते यो वा नैव मूल्यं क्रेतुरादत्ते यच्चात्र तेह विक्रीतं मया तवेदमिति स उत्तरकालं विक्रीतं त्वया ममेदमिति गृहाण मूल्यमिति न लभते वक्तम् । न चायं विक्रयानुशयो दशाहात्परेणापि निवर्तयेदिति योवाऽऽसेन २५ क्राययति पूर्वोक्ते पञ्चम्याङ्गनिमित्ते सति निमित्तान्तरे वा सति विक्रीणीते न च रूपका
1
१ फ-वाच्यं २ | फ- सर्वस्तदानीं । ३ फ-यदावापकं बन्धकीकृतं । ४ फ- वासोस्ति । ५ र दर्शयति । ६ र गुह्यं । ७ र तत्र किं कृतमिति; फ-बाधकी ८ र-प्रकारणस्येन्यस्य आदिभागात् । ९ र परिवृत । १० र धनिकस्य च बन्धदानकालदं तमन्तरेण करणेणेति । ११ र विक्रिया ।
For Private And Personal Use Only