________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३८
मेधातिथिभाष्यसमलंकृता ।
[ अष्टमः
यद्यपि न दानप्रतिभूरद्य निरादिष्टस्तत्तत्पुत्रो दाप्यते स्वधनादेव तद्योनिरादिष्टपुत्र इति द्रष्टव्यं तस्यैव प्रकृतत्वात् साक्षात्प्रतिभुवस्तु प्रतिभूत्वादेव प्राप्तिरिति चेन्मैवं । निरादेशने न इति स्थितिरेषा शास्त्रमर्यादा विचारादेवावलंबन इति सिद्धे यन्निरादिष्टो लंबन इति चैवमभिधानं तत्पद्यग्रन्थानुरोधेन ॥ १६३ ॥
मत्तोन्मत्ता ध्यधीन लेन स्थविरेण वा ॥
असंबद्धकृतश्चैव व्यवहारो न सिध्यति ॥ १६४ ॥
कार्यपर्यायो व्यवहारशब्दः । यत्किचिदानाधानविक्रयादिकार्य लेख्यादि च प्रमाणमेतैः कृतं तन्न सिध्यति कृतमप्यकृतं भवति । मत्तोन्मत्तौ विख्यातौ । आत्तों धनबन्धुनाशादिपीडितः प्रत्युपस्थितभयश्च । यौगिकत्वान्मत्तादिशब्दानां यावन्मदादियुक्तास्तावत्तत्प्रमाणमावस्थिकोऽयं प्रतिषेधः । प्रदर्शनार्थ चैतदप्रकृतिस्थत्वमात्रस्य । यथोक्तं 'कुर्यादप्रतिकृतिं गतः । तदा प्रकृतमस्याहुरस्वतन्त्रे सहेतुत' इति । अप्रकृतिस्थश्वोच्यते उपप्लुतबुद्धिः स्वकार्यविवेचने असमर्थः । उक्तं च " कामक्रोधाभियुक्तार्था भयव्यसनपीडिताः। रागद्वेषपराश्चेति ज्ञेयास्त्वप्रकृतिंगताः" ॥इति । कामादीनां द्वन्द्वं कृत्वा पीडितशब्देन तैः पीडिता इति साधनंकृतेति तृतीयासमासः । तेन पीडितस्य प्रतिषेधः । स चायं संप्रति मन्मथाधिष्ठस्त्रीपरिरम्भणादि. परीप्समानो भवति । अभियुक्ता द्यूतादिक्रियान्तरे दत्तावधानाः। एते हि तत्र संसनन्तः स्वामिनोऽपि स्व इत्यस्य प्रातिभाव्यादिक्रियानिश्चयस्यानवधानान्न प्रमाणम् । यतः क्रियान्तरावहिततया परेण पृच्छयमाना इदमस्मै दीयतामङ्गीकृतं वा प्रातिभाव्यमियति वस्तुनीहशेऽनेन च प्रकारेणोच्यत इत्येवमादि निपुणतो नावधारयन्ति । प्रकृतिक्रियाविघ्नो वा माभूदस्मिन्निहस्थ इत्यभिप्रायमभ्युपगच्छन्ति । गच्छ त्वं यद्रवीषि तत्सर्वमनुष्ठीयत इति पारतन्त्र्यं वाऽङ्गीकुर्वन्ति । तदुक्तं 'स्वतन्त्रः सहेतुत' इति । येन हेतुनाऽस्वतन्त्रोऽप्रमाणं सोऽस्य स्वतन्त्रस्यापि हेतुर्विद्यते । यथाऽस्वतन्त्रः स्वमपि न विनियुङ्क्ते एवमयमपि कामादिवशीकृतमर्थविवेकं कार्याणां च गुणदोषौ क्रियमाणावनधिगच्छन्नस्वतन्त्रेण
तुल्यो भवति । २५ आर्तो व्याख्यातः । अभियुक्तविशब्दौ च धर्मिवचनौ लक्षणया धर्मिपरौ विज्ञेयौ।
अभियोगोऽभियुक्त आतुर इति । व्यसनानि कामक्रोधसमुत्थितानि मृगयादीनि । अभियुक्त.
१र-दर्धिधानः । २ र-अभियुक्तांतदादौ च ।
For Private And Personal Use Only