SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः। प्रेते दायादाः पुत्रा दाप्यन्ते । नान्यस्मिन् । यद्येवं प्रथमोऽर्द्ध श्लोकोऽनर्थकः । दानप्रतिभुवः पुत्राणां साधनानुक्ते सामर्थ्याधस्य प्रतिभुवो नास्ति पुत्राणां संबन्ध इति गम्यते । अथ विस्पष्टॉर्थमुच्यते । प्रत्ययग्रहणमपि कर्तव्यमितरथाप्रतिषेधदर्शनं ग्रहणाद्विधौ च दानग्रहणादुभयपरिभ्रष्टस्य किंविधिभूतप्रतिषेध इति संशयः स्यात् । नास्ति संशयः । स्मृत्यन्तरे स्पष्टमुक्तत्वात् ( या० व० व्य० ५४) "दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिकोऽपि वा । न तत्पुत्रा ऋणं दद्युर्दबुर्दानाय ये स्थिताः॥" इति । इहापि दानप्रतिभुवोऽन्यस्य विधित्वादन्यत्राप्राप्तिः। दर्शनग्रहणमुपलक्षणार्थम् । अनुवादे चोपलक्षणत्वमदोषः । किंप्रयोजनमिति चेद्विचित्रा श्लोकानां कृतिर्मानवी ॥ १६१ ॥ अदातरि पुनीता विज्ञातप्रकृतावृणम् । पश्चात्पतिभुवि प्रेते परीप्सेत्केन हेतुना ॥ १६२॥ अनेन श्लोकेने संदिहानः प्रश्नं कृत्वोत्तरेण निश्चाययति । संदेहहेतु श्लोकः पदद्वयेनादातरि विज्ञातप्रकृताविति सप्तम्यन्तानि समानाधिकरणानि पदानि व्याख्यायन्ते । अदातरि प्रतिभुवि प्रतिज्ञातप्रकृतौ न ऋणमनुत्तमर्णः केन हेतुना परीप्सेत लब्धुमिच्छेत्किकेवलेनैवात्मव्यापारेण ततः प्रतिभुवः पुत्रमपि व्यापारयति । कुतः संदेहः ? उक्तं । मृतो दानप्रतिभूतज्जातस्तादृशे मृते कस्तत्पुत्राणां संबन्धः? यतस्तु खलु १५ विज्ञातप्रकृतिर्विज्ञातकारणः प्रतिभूत्वेन धनं गृहीत्वा स्थित इत्येतनिश्चितमतो भवति बुद्धिरस्ति तत्पुत्राणां संबन्धो यतस्तेन ऋणसंशुद्धयर्थमस्य निसृष्टमिति । पुनःशब्दः पूर्वस्माद्विशेषमाह । यदि दानप्रतिभुवः पुत्राः संबध्यन्ते । यस्तदाता तस्मिन्मृते दातोत्तमर्णः । पश्चात्तत उत्तरकालमित्यर्थः। शेषं व्याख्यातम् । परीप्सा प्राप्तीछा ।। १६२ ॥ निरादिष्टधनश्चेत्तु प्रतिभूः स्यादळधनः ॥ २० स्वधनादेव तद्दद्यानिरादिष्ट इति स्थितिः ॥ १६३ ॥ निरादिष्टं निसृष्टं स्वधनादर्पितं भव लग्नक इदं ते धनं मत्तस्त्वया संशोधनीयं यद्यहं न दद्याम् | अलंधनः पर्याप्तधनः । यावद्धनमुत्तमर्णाय दातव्यं तावत्परिपूर्ण प्रसृष्टम् । स्वल्पे तु निसृष्टे बहुनि संशोध्ये न दापयितव्यः । पूर्वस्य प्रश्नस्योत्तरमिदं । १र-संबंध । २ र-अन्यस्य। ३ र-ज्ञास्यते । ४ र-शब्दार्थमुच्यते । ५ पु-श्लोकोन । ६रविज्ञाते प्रकृतौ । ७ अदाता तस्य प्रतिभूर्मतो दानप्रतिभून जातः । तादृशे प्रतिकथं तत्पुत्राणां संबंधः । ८ फभवतः पर्याप्तधनं । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy