________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
६३५ तस्यां वृद्धौ देशकालौ व्यवस्थितौ यत्तया पूर्वोक्तेन प्रकारेण देशविशेष कालविशेष वा न निर्विशेषणमेव कृतवान् स एवंविधोऽधर्मर्णस्तौ देशकालौ अतिक्रमो न प्रामुयात्तत्फलं वृद्धयाख्यं नाप्नुयान्न भनेत न दद्यादित्यर्थः ॥ १५७ ॥ किं तत्र नैवास्ति वृद्धिरथवा पञ्चकं शतं नेत्याह
समुद्रयानकुशला देशकालार्थदर्शिनः ।।
स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति ॥ १५८ ॥ समुद्रयानग्रहणं पात्रोपलक्षणार्थम् । स्थूलपथिका वारिपथिकाश्च वणिजो यां वृद्धि स्थापयन्ति सा तत्राधिगमनं प्रति निश्चयं प्रति । सैव निश्चेतव्येत्यर्थः । देशकालार्थदर्शिनोऽस्मिन्प्रदेश इयानर्थलाभोऽस्मिनियानिति ये पश्यन्ति जानते न तु समुद्रयान एव च ये कुशलाः कर्णधारादयः । __अन्ये पूर्वश्लोकमेवं व्याचक्षते । यदृच्छाध्याहारेणाधमणेन या देशकालं चाश्रिता तां च प्राप्य तद्देशोदितं फलं लाभाख्यमन्यस्माद्देशाद्यदि नाप्नुयात्तदा कीदृशी तत्र वृद्धिरित्याकाक्षायामुत्तरश्लोकः । चक्रवृद्धिग्रहणं कारिताया अपि प्रदर्शनार्थम् । लोभातिशयभानां वणिनां क्षयव्ययाय संविधिज्ञाः परस्परस्य यां वृद्धिं स्थापयेयुस्तां राजा प्रमाणीकुयात् । तत्राधिगमं प्रतीति प्रतिः कर्मप्रवचनीयोऽधिगमस्य लक्षणत्वाल्लक्षणेत्यंभूताख्याने १५ तद्युक्ते च द्वितीया ॥ १५८ ॥
यो यस्य प्रतिभूस्तिष्ठेदर्शनायेह मानवः ॥
अदर्शयन्स तं तस्य यतेते स्वधनाढणम् ॥ १५९ ॥ ऋणप्रयोगे द्विविधे । विश्रंभः प्रतिभूराधिर्वा । तत्र प्रतिभूपक्ष इदमुच्यते। त्रिविधश्च प्रतिभूः दर्शने प्रत्यये दाने च। तत्र दर्शनप्रतिभुवमधिकृत्येदमाह । यस्य दर्शनाय प्रतिभू- २० स्तिष्ठेदमुष्मिन्प्रदेशे मयैष तव दर्शनीयः स तथा कुर्वन्स्वधनात्तस्य ऋणं यतेत प्रयत्न कर्यादातुमिति शेषः । दद्यादिति यावत् । ऋणग्रहणं व्यवहारवस्तुमात्रोपलक्षणार्थ । तेन यावन्तोऽर्थविषया व्यवहारे भूत्वाऽनुकपयन्ते तद्वस्तु दद्याद्दर्शनेनान्यतरेणाभियुक्तः वाक्पारुण्यसंग्रहणादौ पर्णपरिभाषा कर्तव्या यदि न दर्शितं चेत्तन्मयां दातव्यं अकृताया तु परिभाषायां राजदण्डमेव दाप्यः । शरीरे तु निग्रहान्तं विक्रयणं सुवर्णम् ॥ १५८ ॥ २५
१फ-धर्मस्तौ । २ फ-नाद्यात् । ३ फ-तनेत्याह । । रज-चाश्रितौ ।५ फ-प्रयच्छेत् । फ-येन । ७ र-निग्रहे तन्निक्रयणं ।
For Private And Personal Use Only