SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [ अष्टमः बुद्धिर्महाशपीडितस्यानुग्रहः । अथ सर्व तदानीमवष्टम्य न वाप्यत एषोऽनुग्रहो निर्धनस्येदृशोऽनुग्रहो दैवेनैव कृतः । तथा च सर्वस्मृतिष्वस्यामवस्थायां विहितम् । "अथ शक्तिविहीनः स्यादृणी कालविपर्ययात् । प्रेक्ष्यश्च तमृणं दाप्यः काले देशे यथोदयम्"। यद्यधमर्णो देवदोषान्निर्धनीभूतस्तदा न दुर्गावरोधादिना राज्ञा पीडयितव्यः । किं · तर्हि कर्तव्यम् ? यदाऽस्य कथंचिद्धनं भवेत्तदा यथासंभवं शनैः शनैदर्पियितव्यः । प्रेक्ष्य शक्तिधनवतां ज्ञात्वेत्यर्थः । दाप्योचितस्य वक्ष्यति 'कर्मणाऽपि समं कुर्यात् । इति । तस्मात् कारणपरिवृत्ती यदेवोक्तमस्माभिस्तदेव प्रयोजनम् ॥ १५५ ॥ अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् ॥ यावती संभवेद्वद्धिस्तावतीं दातुमर्हति ॥ १५६ ॥ अदर्शयित्वा हिरण्यमदत्वा निर्धनत्वावृद्धिहिरण्यं तत्रैव पुनः करणं परिवर्तयेव सातिसमक्षमेवं ब्रूयात् 'एतावन्मूलमस्मै धारयामि । एतावती च वृद्धिरिति' यत्रैवारोपयेत् यावत्संवत्सरा वृद्धिरिति तावद्वयाचक्षते । पुनः करणे वृद्धिसहितमूलीभूते लघीयसी वृद्धिः कर्तव्या। यावत्या वृद्धया नातिपीड्यते या प्रागासीत्ततो न्यूनेत्यर्थः।यज्वासहायनारदाना तु मते काकिणीमात्रमपि शक्तः करणपरिवृत्तिकाले दापयितव्यः । येन साक्षिशक्तश्रवण१५ मात्रे साक्षित्वं ददाति तत्समक्षमधम! अर्थसंबन्धोऽपि प्रत्यक्षीभवति । यतः श्रवणाश्रवणे चकृता भविष्यन्तिाततश्चित्तं तिष्ठति धने दशवर्षोपक्षितमित्यादि न्यनश्वरो भविष्यति॥१५१ चक्रवृद्धि समारूढो देशकालव्यवस्थितः॥ अतिक्रामन्देशकालौ न तत्फलमवामुयात् ॥ १५७ ॥ वाराणसी यास्यामि तदीयं पुण्यं मे भाण्डं च हेतुरेषा च ते वृद्धिरिति । तत्र यदि २० कान्तारनदीसंतरणं राष्ट्रोपप्लवादिना तं देशं न गतस्ततोऽर्वाग्देशात्कियता लाभेन प्रवृत्त्या व्यावृत्तस्तदा यथा निरूपिता वृद्धिर्न दाप्यते । यतस्तं देशं यावद्वहतां या वृद्धिरप्राप्ता ता सा कथं स्यात् ? दीर्घमध्वानं वहतां युग्यानां महान्क्लेशः स्वामिनश्च तावन्तं कालं कृतैव वृद्धिपुग्योपकारः। शीघ्रं तु प्रतिनिवृत्तानां स्वामिनः पुनरन्यत्रोपकारणं संपद्यत एव । एष एवातिक्रमः । एवं कालातिकमो मासमेव हन्तुं बलीवी इयती तव वृद्धिरिति । तत्र २५ यदि पक्षात्प्रत्येति तत्र चक्रवृद्धिमधमर्णः समारूढः प्रतिपन्नोऽङ्गीकृतवानिति यावत् । १ एवं मूले। २ र-तदीया युग्या। ३ फ-नां । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy