SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। ६२९ लोके शास्त्रवियोजनीया स्थितिः । यदुभौ लाभश्च भोगश्च वृद्धिः स्यात्तेन सा वृद्धिभोक्तव्या। निष्कृतिपरशुद्धिर्विनियम इति यावत् । अन्ये तु द्विगुणीभूतेऽप्यमोक्ष्यमाणे प्रतिषेधमिममिच्छन्ति । तस्य हि स्वल्पोऽपराध इति वदन्तः प्रथमं तावदादावेव तैर्याज्ञवल्क्यवचनस्य विषयो देय ' आधिः प्रणश्येदिति ' ॥ १५१ ॥ कुसीदवृद्धिगुण्यं नात्येति सकृदात्हता ॥ धान्ये सदे लवे वाद्ये नातिक्रामति पञ्चताम् ॥ १५२॥ लाभार्थो धनप्रयोगः कुसीदं । तत्र वृद्धिः । अथवा प्रयुज्यमानं प्रयोक्तृसंबन्धिधनमेव कुसीदम् । यदायं स्वल्पं दत्त्वाऽधिकं ग्रहीष्यामीति धनं दीयते तत्कुसीदं तत्र वृद्धिः। सा द्विगुणत्वं नातिकामति । तावदुत्तमणेन वृद्धयर्थं धनं दत्तवताऽधमर्णाद्रहीतव्यं यावन्मूलधनं द्विगुणं प्रविष्टम् । ननु वृद्धद्वैगुण्यं श्रूयते । मूलेन सह त्रिगुणं प्राप्नोति । नैवंगुणोऽवयव उच्यते । स तावदवयविनमपेक्षते । प्रकृतं च धनम् । अतः प्रयोगविषयस्य धनस्यानेन प्रकारेण द्वैगुण्यमुक्तं भवति । तथा च स्मृत्यन्तरं " चिरस्थाने द्वैगुण्यप्रयोगस्य मोच्य आधिः स तदुत्पन्ने प्रविष्टे द्विगुणे धन " इति । ___वृद्धिश्चानेकरूपा । कोर्षापणेषु प्रयुक्तेषु कार्षापण एव वर्धते । क्वचित्सन्ततिः १५ स्त्रीपशूनां वेति संततिः । कचिदाधिभोगः गोभूम्यादेः । तत्रेदं द्वैगुण्यं सरूपवृद्धिविषयं केचिदाहुः । तत्र हि मुखं वृद्धेद्वैगुण्यं प्रतीयते संततौ न विज्ञायते । किं सङ्ख्यायाऽस्य द्वैगुण्यमुत परिमाणेनोन्मानता वेयमतो वेत्यादिनिश्चये पशूनां मूल्याद्धि महार्घत्वं हस्त्यश्वादिषु क्रयविक्रयादौ दृश्यत एव । महाप्रमाणा हि महा; भवन्ति ।। ननु च संततौ सारूप्यमस्त्येव। गोः संततिगैरिव । तत्र भेदोपन्यासो न युक्तो वृद्धिसरूपा २० संततिश्चेति । उच्यते । नैकजातीयत्वमात्रेण सारूप्यं भवति । किन्तु वयःपरिमाणादिसाम्येन । अतो युक्तो भेदोपन्यासः । भोगलाभेऽपि कुतो द्वैगुण्यप्रतीतिरूपकाणि जनयतु गावः प्रयुज्यन्ते । गोभूम्यादिपयोयवसादयो यथासंभवं भुज्यन्ते । तत्र कीदृशं द्वैगुण्यं समाचारश्च क्वचिदृश्यते । वर्षशतानि भूमिरामूलहिरण्यादानाद्भुज्यते । पठति च याज्ञवल्क्यः “आधिश्च भुज्यते तावद्यावत्तन्न प्रदीयते" (व्य.९०) इति । अत्रोच्यते । वृद्धिमात्रे २५ श्रूयमाणे द्वैगुण्यं कथं विशेषेऽवस्थाप्यते । न हि स्तुत्या सामान्यप्रतिपत्तिर्भवन्ती विना १ फ-कुशीदं । २ र-रूपकेषु प्रयुक्तेषु रूपका एव वर्धते । ३ र-क्वचित् । ४ फ-संख्यास्य । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy