________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२६
मेधातिथिभाष्यसमलंकृता।
[अष्टमः
पठिता ॥ “लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम्" इति । न तु स्वत्वकारणमध्ये " सप्तवित्तागमा इति " " श्रुतशौर्यतपःकन्या " इत्यादौ च । अथवा यत्र बलादिभोग कारणं संभाव्यते तद्विषयमेतत् । अनागममित्यादि त्वत्रैव प्रकरणे पठितम् (नारदीये १।९२) "याचितावाहितं न्यस्तं बलावष्टब्धयाचितम्। अप्रत्यक्षं च यद्भक्तं षडेतान्यागमं विना"॥ इति ।
ननु च ' आधिः सीमा' इत्यनेनैवायमर्थः सिद्धःउक्तस्य कालस्य त्रिपुरुषं यावद्भुङ्क्ते स एवार्थः । अयं तु तत उत्तरकालमपि निवृत्त्यर्थमारभते । तथा च बहून्यब्दशतानीत्यत्र वचनमन्वाहितं यत्प्रकटमन्यथा प्रदान्तर्हितमन्यदवस्थाप्यते बन्धोपात्हतं रात्रौ सन्धिभेदछलादिना बलावष्टब्धत्वं प्रसह्येति विशेषः । शिष्टं प्रसिद्धम् ।
यदि त्रिपुरुषा भुक्तिः प्रमाणं कस्तर्हि यदुक्तं "पश्यतोऽब्रुवतो भूमेहानिर्विंशतिवार्षिकी" १० इत्यस्यार्थः । । केचिदाहुः कियन्तं कालं भुञ्जानस्य सति लेख्यदोषादौ सक्ताभियुक्तादि
कृतत्वं क्रमाक्षरविलेपादसत्यनयाभ्यामधमर्ण उच्यते । संदिग्धरूपमपि लेख्यमियता भोगकालेन निश्चीयते । अन्ये त्वार्यत्रैव तामेव भूमिरेकस्य बन्धायार्पयति तामेव चापरस्यैकस्याऽऽद्यं प्रमाणमपरस्य पाश्चात्यं तत्र सत्यपि प्रामाण्यस्याद्यत्वे पाश्चात्यो
विंशतिवार्षिको भोगो बलवानेतच्चायुक्तम् । । येनैव स्वीकृतो बन्धस्तथैव सः' १५ " आधेः स्वीकरणात्सिद्धिः" इति वचनात् स्वीकारश्च भूमेर्मोगामिलाषेव तेनेदृशे विषये
स्वल्पेनापि भोगमिति कालेन बन्धसिद्धिः । एतदेवाभिप्रेत्योक्तम् " विद्यमानेऽपि लिखिते जीवत्स्वपि हि साक्षिषु । विशेषतः स्थावराणां यन्न भुक्तं न तत्स्थिरम्"। इति । विशेषग्रहणं गवाश्वादावभुज्यमानेऽपि नासिद्धिर्यतस्तेनावश्यंभोग्यास्तथाहि भवेद्गौर्गर्भ गृह्णाति कीदृशोऽा अतो भोगः भमिस्तु सर्वदा फलदेति भोगलाभमन्तरेण न बन्धत्वसिद्धिः । तत्रापि कथंचिदुपेक्ष्यमाणस्य तु यच्छतः प्रथमभोगकाल एव यदि द्वितीयेनाऽऽधिग्राहकेण संनिकर्षादिना स्वीकृतः स्यादितरेण वाद्य प्रमाणवता देशविप्रकर्षात्कार्यव्यासङ्गाद्वा न स्वीकृतस्तदा विचार्यते नेयता तदसिद्धिः । यदों तु गृहति धिरेव समनन्तरं राज्ञा प्रव्राजितो महान्तंव्याधिमाससाद न वाऽस्यान्योऽर्थरक्षाद्यधिकृतः
काश्चदस्ति स चिरेणाप्यागतः सिद्धावपि निरुपधिप्रमाणकाले लभत एव स्वीकृतमप्यन्येन । २५ अन्ये तु भ्रातूणां न्यूनाधिकविभक्तानां पुनर्विभागः समीकरणार्थ उक्तः स
विंशतिवर्षेभ्य ऊर्ध्वं नास्तीत्येवमर्थमिदमाहुः । एतावन्मात्रफलत्वे तत्रैवाभिधानमुचितम् । सामान्याभिधानं तु प्रकरणोत्कर्षेणान्यविषयतामपि ज्ञापयति ।
१णर-त्रिपुरुषायायुक्तरपवादो । २णर-सिद्ध । ३ णर-इयन्तं । ४ णर-भोगाभिस्यंग एव । ५फ-न विज्ञो । ६ णर-कीद्दशोन्यो भोगोपि न दोष । ७जर-उद्यच्छतः। ८णर-संगानस्वी । ९ जयदि । १० ज-तोधिरेव ।
२०
For Private And Personal Use Only