________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
- ६२५ ननु च न भोगात्स्वत्वं युक्तं स्वत्वे सति भोगो युक्तः । भोगाद्धि स्वत्वेऽव्यवस्था स्यात् । यश्चायमवधिर्दशवर्षाणीति स स्मृत्यन्तरेण न सर्वस्मिन्धन इष्यते । किं तर्हि ? "पश्यतोऽब्रुवतो भूमेहा॑निविंशतिवार्षिकी" इति (या.व. स्मृ. व्य. २४)। अन्ये तु विंशतिवार्षिकेणापि भोगेन स्वाम्यमनुमन्यन्ते । एवं ह्याहुः " अनागमं च यो भुङ्क्ते बहून्यब्दशतान्यपि " । तथा " संभोगो यत्र दृश्येत न दृश्येतागमः क्वचित् । आगमः कारणं तत्र न संभोग इति स्थितिः" ।
त्रिपुरुषभुक्तिवादिनस्तावदेवं पठन्ति ( नारदीये १।९१)
“यद्विनागममत्यन्तं भुक्तं पूर्वस्त्रिभिर्भवेत् । न तच्छक्यमपाहत क्रमात्रिपुरुषागतम्"।। अस्यायमर्थः । आगमोदानाद्यसति तस्मिन्यद्भुक्तं पितृपितामहप्रपितामहैस्तच्चतुर्थस्य सिध्यति न तु विंशत्या वर्षैः । तत्रान्यत्रोक्तम् "आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा । अन्ते तु भुक्तिरेवैका प्रमाणं स्थावरे भवेत्॥" तृतीयस्य भोगात्सिद्धिर्न प्रथमद्वितीययोः पितृपितामहयोरस्यापि न विंशतिवर्नोगः प्रमाणम् । अन्ये त्वागमरहितस्य वार्षशतिकस्यापि भोग्यस्याप्रामाण्यमनुमन्यन्ते । । तथा चाहुः " अनागमं तु यो भुङ्के बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥ १५ "भोगकेवलतां यस्तु कीर्तयेन्नागमं क्वचित् । आगमः कारणं तत्र न संभोग इति स्थितिः"॥ या तु बहून्यब्दशतानीति तदाहर्तृविषयमात्मीयमेव भोगम् । चिरकालत्वे हेतुमाह । तस्य पितृपितामहभोगेन विना न सिद्धचतीत्यर्थः । कथं पुनरेकस्यानेकाब्दशतो भोगः पुरुषस्य । नैष दोषः । चिरकालप्रतिपादनपरी बहुत्ववचनाः शतं सहस्रमित्यादयः शब्दाः। यथा “शतायुर्वै पुरुषः शतवीर्यः शतेन्द्रिय" इति । एतदुक्तं भवति । विंशति- २० वार्षिकाद्भोगादधिकादपि न प्रथमभोक्तभॊगात्स्वत्वसिद्धिरथवा तत्परस्यापि न सिद्धयतीति यथाश्रुतमेव। न हि बहुष्वब्दशतेष्वागमस्मरणं संभवति । ततश्च चिरन्तनदेवायतनब्राह्मणमठग्रामा राजभिरपहियेरन् लेख्यशासनमपि राजाधिकृतलेखकलिखितमिति चिरन्तनेषु नैव प्रत्यभिज्ञायेत । कूटशासनमपि संभाव्येत । तस्माच्चिरन्तनो भोगः स्वत्वकार्यः स्वत्वस्य दानाचारामसंभावनाया ज्ञापको हेतुने तु कारकः । अत एव भक्तिः प्रमाणमध्ये २५
१णर-परतो । २णर-अन्यस्य वार्षशतिकस्यपि भोगस्य प्रामाण्यं नानुमन्यन्ते ३ णर-हि । ४णर-भोगछलोपदेशेन संज्ञेयस्तु तस्करः । इति उच्यते । यत्र चेदुक्र भोगोनैव प्रमाणमिति तदयुक्तं । सर्व. स्मृतिकारै त्रिपुरुषस्य भोगस्य प्रामाण्येनाभ्युपगनत्वार । ५णर-चिरकालसिद्धिहेतुमाह । ६ ज-परवत्व वचनाः फ-परत्ववचनाः । ७ फ-तत्पुत्रस्यापि । ८णर-ग्राम ।
For Private And Personal Use Only