SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२४ मेधातिथिभाष्यसमलंकृता । [ अष्टमः हि तल्लोकेऽत्यन्तं धनमिति प्रसिद्धं गोभूहिरण्याद्येव महार्ष धनमिति प्रसिद्धतरम् । तेनायमत्र वाक्यार्थः । यत्किचिद्द्रव्यं परेण भुज्यमानं धनी धनस्वामी दशवर्षाणि यावत्प्रेक्षते न किंचिद्वक्ति न राजनि व्यवहरति न कुलसमक्षं भोक्तारं वदंति ' मदीयमेतत्किमिति त्वया स्वयं भुज्यत' इति स दशभ्यो वर्षेभ्य उत्तरकालं न तल्लब्धुं स्वीकर्तुमर्हति निवर्ततेऽस्य स्वमिति यावत् । प्रेक्षणेन ज्ञेयतामात्रमुच्यते न प्रत्यक्षतैव । संनिधाविति वक्ष्यामः । न ज्ञातिसंबन्धिभिः । तथा च स्मृत्यन्तरं - ' ज्ञातिसंबन्धिभिर्विना ' इति ॥ “सबन्धिबान्धत्रैश्चैव भुक्तं यज्जातिभिस्तथा । न तद्भोगो निवर्तेत भोगमन्यत्र कल्पयेत्॥", तदयुक्तम् । अव्यवस्थैवं सति स्यात् । के ज्ञातयः के वा संबन्धिन इति संबन्धमात्रग्रहणे न किंचिव्द्यावर्त्य । तस्माद्येनान्यदीयं भुज्यते स एवं भवति किन्तु तथा १० सति परशब्दोनुवादमात्रमनर्थः कस्यापि न परव्यपदेशः स निरस्यते । यथा भार्यापती पितापुत्राविति । तत्र ह्यात्मन्यपि व्यपदेशोऽस्ति " अर्द्धां ह वा एष आत्मनो यज्जायाऽऽत्मा वै पुत्र नामासि” इति । तेन दम्पत्योः पितृपुत्रयोर्न भोगाभोगौ कारणं तेषामपि विभक्तधनानां भोगकाले प्राप्तेऽभोगो बाधक एव । भार्याया अपि स्त्रीधने भर्तृसकाशाद्गृहीते बन्धेन पत्युर्भोगे नासिद्धिः सा ह्यात्यन्तपरवती नोभयोर्विभागोऽस्ति स्त्रीधनमपि तेनैव १५ तस्याः परिपालनीयं राज्ञा ' स्त्रीश्रोत्रियद्रव्यादन्यत्र' इति च पठ्यते । एवमनेन स्वामिन उपेक्षमाणस्य स्वाम्यहानिरुक्ता । कस्य तर्हि तत्संभवतीत्येवमर्थमुत्तर श्लोकः ॥ १४८ ॥ अदपोगण्डो विषये चास्य भुज्यते ॥ 1 भग्नं तद्व्यवहारेण भोक्ता तद्द्रव्यमर्हति ॥ १४९ ॥ न स तलब्धुमर्हतीत्यस्य शेषः । अजडचेदपोगण्डो यदि जडः अप्रतिपत्तिमान् २० पोगण्डो बालः प्राषोडशाद्वालः पोगण्ड इत्युच्यते । एतच्च स्वधनसंरक्षणासामर्थ्यकारणानामन्येषामप्युपलक्षणार्थं । मद्यद्यूतविशक्तता दीर्घरोगगृहीतता तपःस्वाध्यायैकपरत्वं व्यवहारेष्वनैपुण्यं वागिन्द्रियाभावो बाधिर्यं यस्यैतेऽसामर्थ्यहेतवः सन्ति न तदीयै धने भोक्तुर्वहुतरेणापि कालेन स्वत्वमापद्यते । विषये चास्य भुज्यते । अस्येति धनिनः प्रत्यवमर्शः विषयः काश्मीराणां कश्मीरपञ्चालानां च पञ्चाला यदि भोक्ता च स्वामी २५ चैकस्मिन्नेव देशे वसेत्तथापि शक्तिविहीनस्यायं व्यवहारः । अत्रापि व्याख्याने प्रपञ्च एवायं । अजडापौगण्डग्रहणस्य प्रदर्शनार्थतयां व्याख्यातत्वात् तेन यस्य जानतो यदुपेक्षांकारणं न संभाव्य ते तदीयं धनं दशवर्षाणि भुञ्जानो भोक्तवार्हति तस्य तत्स्वमित्यवगर्तव्यम् । १ णर-त्वत्प्रेक्ष्य ज्ञात्वा । २ णर मुत्रभ्राति । ३ णरज्ञायता । ४ णर-सपर । ५ णर- स्त्रीधनेन । ६ णर - आः - पोगण्डस्यापि वासितः । ७ णर-भोक्तरिति शक्रता राज्ञा व्यवहारेषु । ८ नैपुण्यं - ार - तदीय धनं । ९ फ-प्रदर्शनव्याख्यानत्वात् । १० फ - प्रज्ञानोपसंभाष्यते । ११ णर - सातव्यम् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy