________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
यतः स्वाम्यमस्य निवर्तते । यस्तु कथंचिदसति धने न मोक्षयति तस्य निसर्गविक्रयौ नं त इति । अर्थवाऽपरोऽर्थों मुखेनोपेक्षयति । परहस्तगतया शङ्कयोच्यते अवहार्यों भवेतामिति ॥ १४६ ॥
संप्रीत्या भुज्यमानानि न नश्यन्ति कदाचन ॥
धेनुरुष्ट्रो वहनश्वो यश्च दम्यः प्रयुज्यते ॥ १४७ ॥ प्रीतिरेव संप्रीतिः । तया हेतुभूतयोपभुज्यन्ते धेन्वादयस्ते न नश्यन्ति । पूर्वस्वामिसंबन्धहान्याभोक्तः सत्वापत्तिनाशः स धेन्वादीनां प्रीत्या भुज्यमानानां न भवति। ननु च सर्वस्यैवोपनिर्भोगेनापहारो नास्ति वक्ष्यति “ निक्षेपोपनिधिश्चय" इति । को विशेषो धेन्वादीनाम् । उच्यते । यत्र दशवर्षों भोगो न च स्वरूपनाशस्तत्र यत्किचिदिति सामान्यवचनेन प्राप्तेऽपहारे उपनिधेः प्रतिषेधः धेन्वादीनां तूपनिधित्वमेव नास्त्यतः प्रतिषेधस्य १० नायं विषय इति स्यादाशङ्काधाननिमित्तो हि धेनुशब्दो यदि परसंवत्सरे धेनुः स्यात् परत उपसर्या यदि गर्भमादध्याद्धेनुत्वमापद्येत तदा जनयेदाशङ्कामस्यैवेयं न देवदत्तस्य यतः प्रष्ठौहीनभोग्या प्रीतिसंभोग्यश्चोपनिधिर्येन स्वकै ग्यं परिपालयन् पुनर्भुज्यमानं दृष्टं न पुनरुपनिधेरेतद्रूपं भोग्यो ह्युपनिधिरसद्भावाभोग्यस्य च कीदृशगुणमुपनिधित्वं उपनिधेश्चासौ प्रतिषेधः तस्मादुपनिधिरूपातिकमादसति तस्मिन्प्रतिषेधे यत्नान्तरमुक्तम् । १५ उष्ट्रादीनामपि दशवर्षाणि भुज्यमानामवस्थान्तरांपत्तिः । अतस्तत्रापि नोपनिधित्वम् । वहन्निति केचिदश्वविशेषणं मन्यन्ते । वृषस्य नायं विधिः। अपरे तु गर्दभाश्वतरार्थं मन्यन्ते । दम्यो बलीवर्दः । प्रयुज्यते वाहान्यस्य स्पंदयिते।
__ अन्ये तु पुनः प्रतिषेधं विकल्पार्थ मन्यन्ते । एतव्यतिरेकेणान्यस्योपनिधेरस्ति २० कादाचित्कोऽपहारः तेन यद्वस्त्रादि प्रीत्या भुज्यतो यावत्परिक्षीणं तत्रत्येवोपहारः । न हि प्रीत्या गृहीते वस्त्रे तस्योपरिक्षीणे स्वामिनोपेक्षते पुनरवसरोऽस्ति देहि मे वस्त्रं विनाशितं त्वया तत्समेन मूल्येन संसाधयति ॥ १४९० ॥
यत्किंचिद्दशवर्षाणि सन्निधौ प्रेक्षते धनी ॥
भुज्यमानं परैस्तूष्णीं न स तल्लब्धुमईति ॥ १४८ ॥ २५ यत्किंचिद्भुज्यमानमित्यवस्थितेने संबन्धो धनीति सन्निधानात्सामान्यनिर्देशेऽपि भुज्यमानधनोपेक्षणं प्रतीयते । यत्किचिदितिं दासीदासासारभाण्डादि सर्व ग्राहयति। न
१फ-अद्यवा।२फ-बान्धवा; क्ष-बन्धवा ३णर-यःकश्चिदिति।४ फ-पाल्य । ५ ज-निर्भासितं । तत्समानमूल्येन । ६णर-संशोधयति । ७णर-भुज्यमानमपि इति विहितेन संबंधः । ८फ-पुमानत्र । धनोपेक्षणे । ९ ज-+अव्यवहिते-; णर-वीया ।
For Private And Personal Use Only