________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः ।
६२१ संज्ञान्तरव्यपदेशं निवर्तयति । इदमपि पूर्वांजीवतः कल्पान्तरं यस्य वा महते धर्माय गृहारम्भो राजा च नातिधार्मिकस्तत्रायं विधिः । येऽसाधुभ्योऽर्थमादायेति न्यायेन । समामिति पाठान्तरम् । संवत्सरं यावदेषा वृद्धि परतोऽपि महत्त्वादिकत्वाद्वैगुण्यं स्यात् ॥ १४३॥
न त्वेवाधौ सोपकारे कौसीदी वृद्धिमानुयात् ॥
न चाधेः कालसंरोधानिसर्गोऽस्ति न विक्रयः ॥ १४४ ॥ ___बहुधा प्रयोगो गृहीत्वाऽऽधिमन्यथा च आधिरपि द्विविधो गोप्यो भोग्यश्च । भोग्योऽपि द्विविधः समयादैह्यमानभोगः सरूपतो वा । आधिर्दोग्ध्री गौः पिहितसुवर्णादि । तत्र भोग्यमाधिमधिकृत्येदमुच्यते । न त्वेवाधी सोपकार इति । विविधसोपकारः क्षीरिणी गौः क्षेत्रारामादि च । तस्मिन् भुज्यमाने कुसीदे भवा कौसीदी अनन्तरोक्ता १० वृद्धिस्तामामुयात् । आधिं तु भुञ्जानो नान्यां वृद्धिं लभेत । गोप्येऽप्याधौ कालसंरोधाश्चिरमवस्थानाद्विगुणीभूतेऽप्यमोक्षमाणे न निसर्गोऽस्ति न विक्रयः । अन्यत्र च विधिनों ऽर्पणं निसर्गः । अन्यत्र संक्रामितं द्विगुणीभूतमपि पुनर्वर्धत एव । तथा च पठिष्यति
सकृदाहृतेति ' । विक्रियः प्रसिद्धः । सोऽपि न कर्तव्यः । किं तस्यामवस्थायां कर्तव्यम् । आधिं भुञ्जीत यावद्विगुणं धनं प्रविष्टे ततो मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे १५ धने भोग्यस्तावदेवमभोग्यस्तावत् । एंवमभोग्यस्त्वाधिः शांतलाभस्तिष्ठत्येव यावदाधाता नागतः । यस्त कथंचिद्धनिको दरिद्रतामपगतस्तावन्मात्रशेषधनः स कञ्चित्कालं प्रतीक्ष्य राजनि निवेद्य विक्रीणीत बन्धं ततो विक्रयादुत्पन्नं द्विगुणमात्मनो धनं गृहीत्वा शेष मध्यस्थहस्ते ऋणिकसात्कुर्यात् ।
ननु च " आधिः प्रणश्येद्विगुणे धने यदि न मोक्षयेत् " इति पठ्यते । एतदु- २० त्तरत्र व्याख्यास्यामः । प्रणाश्यत्वान्न पूर्वस्वामिनः स्वाम्यहानिः प्रयोक्तुश्च स्वत्त्वापत्तिः । यदि च निसर्गविक्रयौ न स्तः कीदृश्यमस्य स्वाम्यमुच्यते ? तस्मात्प्रतिषेधसामर्थेन प्रणाशवचनप्रतिषिद्धभोर्ग इति भोगानुज्ञानाथै व्याख्यायते । वस्त्रादिविषयं वा तस्य हि भुज्यमानस्य प्रणाश एव न क्षेत्रादेरिव तिष्ठतः स्वरूपात्प्रपच्यवमानस्य भोग्यता संभवति । तेनैतत्स्मृतिव्यवस्थायां व्याख्येयम् । गौणौ चात्र प्रणाशनिसर्गौ । विक्रयप्रतिषेधस्तु मुख्य २९ एव । न ह्यसौ गौणतया प्रतिपत्तुं शक्यते । एतदेव प्रस्तुत्य " न स्यातां विक्रयाधीने"
१णर-संख्या संख्यान्तरव्यपदेशं । २णर-अजीवति । ३ णर-माहीतारस्य नातिधार्मिका, तत्रायं । ४णर-विभुज्यमान भोगः स्वरूपभोगो वा । ५णर-बन्धकत्वेन ।६ णर-संक्रामिते बन्धे । ७फ-देयं भोग्यस्त्वाधिरस्य लाभं तिष्ठेद्यावदाधो न मागते तुवाधे । ८फ-बन्धन । ९ फ-भोगस्य । १०णर-ऐते स्मृती विषयव्यवस्था व्याख्येये।
For Private And Personal Use Only