SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [अष्टमः किमिति । तत्सकाशमुत्तमर्णः प्रेषितो बहिरेव कस्मान्न परितोषित इत्यतोऽनेन शास्त्र. व्यतिक्रमेण दण्डमर्हति । यस्तु व्यतिक्रमान्तरं करोत्यपहृते नाहमस्मै धारयामीति स तैः प्रतिपादितस्तविगुणं तस्मात्पञ्चकाद्विगुणं दशकं शतमित्यर्थः । तन्मनोः प्रजापतेरनुशासनं सृष्टिकालप्रभृतिव्यवस्था नीतिरिति यावत् । __ अन्ये तु तच्छब्देन देयमेव प्रत्यवमृशन्ति । यावत्तस्मै देयं तद्विगुणं तेन यावदृणमित्यनेनैकवाक्यं भवति । अन्यथा वाक्यभेदविषयविशेषानिर्देशादेकविषयत्वे विकल्पः प्राप्नोति । स च न युक्तो द्विगुणस्यात्यन्तबहुत्वात् । असत्यपि निर्देशे तस्य विषयो दर्शनं तस्य प्रत्यासन्नेषु पञ्चकमित्यर्थस्तस्यैवानुप्रत्यवमर्शों युक्तः ॥ १४० ॥ वसिष्ठविहिता वृद्धिं सजेद्वित्तविवर्द्धिनीम् ।। अशीतिभागं गृह्णीयान्मासाद्वाईषिकः शते ॥ १४१ ॥ अशीतीति विधेयनिर्देशः । वसिष्ठविहितामित्यादिरर्थवादः । वसिष्ठो भगवान् त्रिकालज्ञो लोभादिदोषरहिस इति तां वृद्धिं गृहीतवानत एषा प्रशस्ता । धनं तया वृद्धिमुपैति । न च लोभदोषोऽस्ति । सृजेत्मयुञ्जीत । यदा धनं तदधमर्णस्य तां वृद्धिं धन प्रयोगकाले निर्दिशेत् । सर्वद्रव्येषु वस्त्रधान्यहिरण्यादिष्वेतदेव वृद्धिपरिमाणं सङ्खयेय१५ परमेयादिषु 'रसस्याष्टगुणा वृद्धिः' इत्यादिषु द्वैगुण्यापवाद इति वक्ष्यामः ॥ १४१ ॥ द्विकं शतं वा गृह्णीयात्सतां धर्ममनुस्मरन् । द्विकं शतं हि गृह्णानो न भवत्यर्थकिल्बिपी ॥ १४२ ॥ द्वौ वृद्धिरस्मिन् शते दीयते द्विशता पूर्वयाऽनिवतो बहुकुटुम्बस्यायं द्विकशतविधिः मासमनुवर्तते । सतामित्यादिरत्रायमर्थवादः। सतां धर्ममिति एषाऽपि वृद्धिः साधूनां धर्मः। नैतया साधुत्वं हीयते नात्यन्तमर्थपर उच्यते । तद्दर्शयति । न भवत्यर्थकिल्बिषी । अन्यायेन परस्वग्रहणात्पापमर्थकिल्विषं तदस्यास्तीत्यर्थकिल्बिषी ॥ १४२ ॥ द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् ॥ मासस्य वृद्धिं गृह्णीयाद्वर्णानामनुपूर्वशः ॥ १४३॥ ब्राह्मणादिवर्णक्रमेण चतुर्णी वर्णानां सकाशादिकादयश्चत्वारः कल्पों यथासङ्खन २५ ग्राह्यतयाऽनुज्ञायन्ते । समं न पादेन वाऽर्थेन वाऽधिकं तदाधिकोऽपि सपादाद्विकं सार्द्ध द्विकमिति द्विकादिव्यपदेशस्यानिवृत्तेराशङ्कानिवारणार्थं समग्रहणम् । यथां मात्रान्यत्वेऽपि १ण-र-तदा । २ क्ष-नि । ३ ण-र-द्विकं शतं । ४ ण-र-अभिवृद्धिभृतानां धर्मः । ५फ-कल्पयितव्या ६ ण-र-न पाग दुष्कमेण त्वाधिकां तदाधिकोऽपि । ७ण-र-यद्यपि । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy