SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६१८ मेधातिथिभाष्यसमलंकृता। [ अष्टम व्यवहारप्रसिद्धिराश्रिता भवति । ततश्च गवादिशब्दतुल्यतया व्यवहारात् प्रसिद्धः । किं शास्त्रोपदेशेन । उच्यते । नियमार्थ उपदेशोऽन्येषामपि परिमेयानामयस्कांस्यसुवर्णादीनामेताः संज्ञाः सन्ति । तन्निवृत्त्यर्थः क्वचिद्देशे परिमाणे भेदोऽप्यस्ति । तन्निवृत्त्यर्थश्च क्वचित् संबन्धतया नियम्यते । तथा च क्वचिदष्टाचत्वारिंशता मापबन्धं क्वचिच्चतुःषष्टया क्वचित् साष्टेन शतेन तदेतत्सर्व नियम्यते । अथ चैवं संबन्धः क्रियते । याः संज्ञा भुवि प्रथितास्ता लोकसंव्यवहारार्थ वक्ष्यामि । सर्वस्य लोकस्याभिरेव संव्यवहारो यथा स्याद्दण्डादिनियोगस्याप्यन्यथा प्रसिद्धिः ॥ १३२ ॥ जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः॥ प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥ १३३ ॥ त्रसरेणवोऽष्टौ विज्ञेयालिकापरिमाणतः । ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्पपः ॥ १३४ ॥ इमं श्लोक केचिन्नाधीयते । त्रसरेणौ विप्रतिपत्त्या तावद्वाक्षकुचिकाविवरप्रविष्टे सूर्ये यो रेणुर्दश्यते स त्रसरेणुः । अन्तरशब्दो विवरपर्यायः। प्रथमं तत्पमाणानामिति। १५ ततोऽपचितपरिमाणाः । न पुनरयं लिक्षाशब्दः स्वेदजक्षुद्रजन्तुवचनः तास्तिस्रो लिक्षा एको रानसर्षपाख्यपरिमाणपदार्थ एवं योजनीयम् । ततश्च व्यभिचारयन्ति न यथोक्तपरिमाणार्थमेते शब्दा वर्तन्त इति । यथा चोपक्रान्तसंज्ञाः प्रवक्ष्यामि परिमाणमिति त्रसरेणुश्चार्थो नियतपरिमाणस्तेनैतत्सर्व निश्चेयं शक्नुवन्ति च निपुणास्त्रसरेणून् संहर्तुमिति नानारभ्यार्थोपदेशः । एतत्स्वर्णकाराभिमानसंख्यास्मृतिरूपं निर्वाधं भवति । तत एव वस्तु २० निपुणतोऽशेषतोऽवधारयितव्यम् ॥ १३४ ॥ सर्षपाः षट् यवो मध्यस्त्रियवं त्वेककृष्णलम् ॥ पञ्चकृष्णलको मापस्ते सुवर्णस्तु षोडश ॥ १३५ ॥ मध्यमशब्दोऽभ्रान्तिहेतुः परिमाणपरत्वे नात्यन्तमपिचितो नातिस्थ नः सर्पपपरिमाण इति मध्यग्रहणमर्थवत् । संज्ञापरत्वे तु न किंचिन्मध्यमशब्देन यवशब्दसंज्ञात्वात् । तदसत्। २५ नायं संदर्भो येन प्रत्यवयवं प्रयोजनमुच्यते । पद्यग्रन्थोऽयं । तत्र संगमनार्थमपि वृत्तानुरोधात्किंचिदुच्यते । अस्ति चास्यान्वयः । अनन्विताभिधानं हि वाक्यार्थविरोधान्न प्रमाणं । न चावगताभिधानमपि । परिमाणभेदांस्त्रसरेणुशतमानादीनाद्यन्तानपेक्ष्य मध्यपठितत्वान्मध्यो यवाख्यः परिमाणविशेषः । पञ्चकृष्णला अस्मिन्सन्ति For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy