________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[प्रथमः भङ्गया । अथवा पृथगेव तां निर्मितवान् । तां निर्माय तस्यां मैथुनेन धर्मेण विराडिति यस्य नाम प्रसिद्धं तं जनितवान् । एतदुच्यते । प्रजापतिः स्वां दुहितरमगच्छत् । इदमपि जायापत्योः शरीरमात्रभेदात् सर्वत्र कार्येष्वविभागात् तदालम्बनं द्वैधकारवचनम् ॥ ३२ ॥
तपस्तत्वाऽसजद्यं तु स स्वयं पुरुषो विराट् ॥
तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः ॥३३॥ स विराट् तपस्तप्त्वा यं पुरुषमसृजत् तं मां वित्त जानीध्वम् । एवं स्मृतिपरंपरया नात्र वः किञ्चिदविदितं मम वर्णयितव्यमस्ति । तन्मध्ये शुद्धिमात्मन आचष्टे । अस्य सर्वस्य स्रष्टारमनेन सर्वशक्तिमाह । जन्मकर्मातिशयवन्तं मां प्रत्ययितरीकरिष्यतीत्यभिप्रायः । निश्चयोत्पत्त्यर्थं चान्यतोऽवगतेऽपि मनुजन्मनि स्वयमभिधानात् । यथाऽन्यतः
श्रुतोऽपि कश्चित् पृच्छयते, 'देवदत्तस्य त्वं पुत्र' इति, 'बाढमिति' तेनोक्ते निश्चय उपजायते । अभिजनवर्णनं कवीनामत्रपाकर सत्यामपि पारंपर्येणात्मस्तुतौ । द्विजसत्तमा इत्यामन्त्रणम् । सत्तमाः साधुतमाः श्रेष्ठा इति यावत् ॥ ३३ ॥
अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् ॥
पतीन्प्रजानामसृजं महर्षीनादितो दश ॥ ३४॥ १५ अहममृजमुत्पादितवान् । दशप्रजापतीन्महर्षीन् । आदितः सुदुश्चरं तपः कृत्वा सुष्टु दुःखेन तपश्चर्यतेऽतिपीडाकरं बहुकालं च । तान्महन्निामतो निर्दिशति ॥ ३४ ॥
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥ प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥ ३५ ॥ एते मनस्तु सप्तान्यानसृजन् भूरितेजसः ॥
देवान् देवनिकायांश्च महर्षीश्वामितौजसः ॥ ३६॥ एते महर्षयः सप्तान्यान्मनूनसृजन् । अधिकारशब्दोऽयं मनुरिति । मन्वन्तरे यस्य प्रजासतें तत्स्थितौ वाऽधिकार उक्तेन प्रकारेण स मनुरित्युच्यते । भूरितेजस अमितौजस इति चैक एवार्थः । एकं प्रथमान्तं स्रष्टुर्विशेषणम् । द्वितीयं द्वितीयान्तं स्रष्टव्यानां
मन्वादीना विशेषणम् । ननु देवा ब्रह्मणैव सृष्टाः । सत्यं, न सर्वे । अपरिमिता हि देव२५ संघाताः । देवनिकाया हि देवस्थानानि स्वर्गलोकब्रह्मलोकादीनि ॥ ३६॥
यक्षरक्षःपिशाचांश्च गन्धर्वाप्सरसोऽसुरान् ॥
नागान् सर्पान् सुपर्णाश्च पितृणां च पृथग्गणान् ।। ३७ ॥ यक्षादीनां स्वरूपभेदश्चेतिहासादिप्रमाणक एव न प्रत्यक्षादीनामन्यतमेन प्रमाणेन परि. १तत्र । १ उ-प्रत्ययैव तरीकरिष्यति ।
-
For Private And Personal Use Only