SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः । तदा किंचिदन्यदपेक्षत इति प्रतिपादितं भवति । सर्वो हि स्वकृतावपि मन्त्रिपुरोहितादिवाक्यमपेक्षते । नैव यागः। दृष्टस्तु व्यापारस्तेनापेक्ष्यते। दृष्टादृष्टकारणद्वयजन्यत्त्वात्सर्वस्य कार्यस्यादृष्टान्तरापेक्षा निषिध्यते तदानीम् । कर्माणीष्टानिष्टफलप्रदानि विधिप्रतिषेधविषयाणि । कर्माणि द्विश उदाहरति । हिंस्राहिंस्रे इति । हिंसा प्रतिषिद्धा । तस्या नरकादिफलप्रदानं नियमितम् । यो ब्राह्मणायावगुरेत् यो मामकायावगुरेत्तं शतेन ५ यातयादिति वाक्यशेषेभ्यः सा ततः स्वभावान्न च्यवते । प्रायश्चित्तेषु विशेषं वक्ष्यामः । अहिंस्रं विहितम् । तस्यापि नेष्टफलदानात् स्वभावच्युतिरस्ति । धर्माधर्मयोरेव विशेषायते । विहितं कर्म धर्मः, प्रतिषिद्धमधर्मस्तयोविशेषाः सत्याऽनृतादयः । सत्यं विहितमनृतं प्रतिषिद्धम् । एवं सर्वाणि पूर्वोत्तरपदानि विहितप्रतिषिद्धविशेषप्रदर्शनानि । अव्यभिचरितदृष्टकार्यकारणसंबन्धीनि कर्माणि । दृष्टान्तः यथर्तुलिङ्गानीति । शेष समानम् ॥ ३०॥ १० लोकानां तु विद्धयर्थ मुखबाहूरुपादतः ॥ ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥ ३१॥ पृथिव्यादीनां लोकानां विद्धयर्थं वृद्धिः पुष्टिर्बाहुल्यं वा ब्राह्मणादिषु चतुर्पु वर्णेषु सत्सु त्रयाणां लोकानां वृद्धिः । इतः प्रदानं देवा उपजीवन्ति । ते र्च यागाद्यधिकृता अतस्तैः कर्म कृतमुभौ लोकौ वर्धयति । पुरुषकर्मप्रचोदिता देवाः । — आदित्याज्जायते १५ वृष्टिरिति ' अस्यापि लोकस्य सृष्टिद्धिः । ब्राह्मणादीन् वर्णानिरवर्तयन्निवर्तितवान् असूजन्मुखबाहूरुपादतः । यथाक्रमं मुखाब्राह्मणं, बाहुभ्या राजन्यं, ऊरुभ्यां वैश्य, शूद्रं पादत इति । तसिः अपादाने।कारणात्कार्य निष्कृष्यत इवेति भवति अपाये सति अपादानत्वम् । आद्यं कंचिद्राह्मणं स्वमुखावयवेभ्यो दैव्या शक्त्या निर्मितवान् । अद्यतनानां सर्वेषां मिथुनसंप्रयोगद्वारेण तत्त्वेभ्य उत्पत्तिदर्शनात् । परमार्थतः स्तुतिरेषा वर्णानामुत्कर्षा- २० पकप्रदर्शनार्थम् । सर्वेषां भूतानां प्रजापतिः श्रेष्ठस्तस्यापि सर्वेषामङ्गानां मुखं ब्राह्मणोऽपि सर्वेषां वर्णानां प्रशस्यतमः । एतेन सामान्येन ब्रह्ममुखादुत्पन्न इत्युच्यते। मुखकर्माध्यापनाधतिशयाद्वा मुखत इत्युच्यते । क्षत्रियस्यापि बाहुकर्म युद्धं वैश्यस्याप्यूरुकर्म पैशुरूपं रक्षतो गोभिश्चरन्तीभिर्धमणं स्थलपथवारिपथादिषु वाणिज्यायै गमनम् । शूद्रस्य पादकर्मशुश्रूषा ॥ ३१ ॥ द्विधा कृत्वाऽऽत्मनो देहमर्धेन पुरुषोऽभवत् ।। अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः ॥ ३२ ॥ एषा सृष्टिः साक्षात्परस्य पुरुषस्य । इयं तु ब्रह्मणस्तस्यैवेत्यन्ये । यत्तदन्तरण्डं समुद्गत शरीरं तद्विधा कृत्वाऽर्धेन पुरुषोऽभवत् पुमान्संपन्नः शुक्रसेकसमर्थोऽर्धेन नारी गौरीश्वर १ अ-क-ब-फ-चेतनायोगाद्यधिकृता । २ ड-पशूनू रक्षतो। ३ डं--प्रयाणम् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy