SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता। [ अष्टमः दश स्थानानि दण्डस्य मनुः स्वायंभुंवोऽब्रवीत् ॥ त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥ १२५ ॥ स्थानशब्दो विषयपर्यायः । एतैः प्रदेशैः पीडयितव्यः । प्रत्यपराधशब्देन ब्राह्मणस्य धनदण्डविधानादक्षतत्वोपदेशः शरीरपीडापरिहारार्थः कल्पते । सत्यपि धनस्य दशसङ्ख्यान्तर्भावे वयं तु ब्रूमः समग्रधनमक्षतमित्यत्र धनपीडाऽपि निपिद्धैव ब्राह्मणस्य । तस्माद्यः सकृत्कथंचिदपराद्धः श्रुतशीलोभिजनयुक्तस्तस्य धनदण्डोऽपि नास्ति । तथा च गौतमस्तादृशमेव ब्राह्मणमधिकृत्य 'द्वौ लोके वृतवतौ' इत्युपक्रम्य षड्भिः परिहार्यश्चेत्यादि ( अ० ८ सू० १; १२ ) ॥ १२५ ॥ उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् ॥ १० चक्षुनोसा च कर्णौ च धनं देहस्तथैव च ॥ १२६ ॥ उपस्थं प्रजनधर्मः स्त्रीपुंसयोरुद्देशमात्रमिदं विनियोगस्तूत्तरत्र भविष्यति । यत्र च दण्डविशेषो नाम्नातस्तत्र यो येनैवाङ्गेनापराद्धः स तत्रैव पीडयितव्यः । तत्रागम्यागमन उपस्थनिग्रहः चौर्य उदर्रत आहारनिवृत्त्यादिना वाग्दण्डपारुष्ये जिह्वाहस्तयोः पादबलेन व्यतिक्रामन्पादयोः विवृत्य विश्रब्धं राजदारान्वीक्ष्यमाणश्चक्षुषोः अनुलेपनगन्ध१५ माजिघ्रन्नासिकायां रहसि राजानं मन्त्रयमाणं कुड्यपटान्तरित उपशृण्वकर्णयोः धने प्रसिद्धो दण्डः देहे मारणं महापातकिनः ॥ १२६ ॥ अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः ॥ सारापराधौ चालोक्य दण्डं दण्डयेषु पातयेत् ॥ १२७॥ उक्तानुक्तदण्ड्येष्वपराधेषु मातृकाश्लोकोऽयम् । एतदर्थानुसारणेन सर्वत्रं दण्डकृप्तिः २० कर्तव्या । तत्रं पौनःपुन्येन प्रवृत्तिरनुबन्धः प्रवृत्तिकरणं वा । अनुबध्यते प्रयुज्यते येन तस्मिन्कर्मणि तं परिज्ञाय किमयमात्मकुटुम्बक्षुदवसायेन धर्मतंत्रसङ्गेन वा अथ मद्ययूतादिशौण्डतया तथा प्रमादाद्बुद्धिपूर्व वा परप्रयुक्तस्वेच्छया वेत्यादिरनुबन्धः । देशो ग्रामारण्यग्रहजलजन्मप्रसवभूमादिः । कालो नक्तं दिवादिः । सुभिक्षदुर्भिक्षबाल्ययौवनादिः सारः शक्त्यशक्ती आढ्यत्वदारिद्रये अपराधोऽष्टादशानां पदानामन्यतमः । एतत्सकै २५ पौर्वापर्येण निरूप्य तथा दण्डं पातयेत्कुर्याद्यथा स्थितिः सांसारिकी न भ्रश्यतीति ॥१२७॥ अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम् ॥ अस्वयं च परत्रापि तस्मात्तत्परिवर्जयेत् ॥ १२८॥ १ण-य-र-स्यायंभवः। २ फ-अकृतत्वोपदेशः; ण-य-र-अक्षितत्वापदेशः। ३ण-य-र-वनमकृतः। ४ फ-शीलोभिजन । ५ण-य-र-प्रजानवन्म । ६फ-उदरस्थ ७ र-पादजबलेन;ण पादजवपर ८फ-क्षसारमेन । ९फ-क्ष-सर्व । १०ण-य-र-तत्रप्रज्ञाप्तिः कारणं वात्नुबध्यते। ११ फ-क्ष-उत सङ्गेन वा । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy