________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
तत्रायं कदाचित् ज्ञातिधनादिबाधया मां व्यापादयेदित्याशङ्का । सहस्रमिति संख्येयविशेषावगतिर्वाक्यान्तरात्पणानामिति । पूर्व तु साहसं प्रथमं ' पणानां तु द्वे शते सार्धं ' ( श्लो. १३८ ) इत्यादौ द्वौ मध्यमौ साहसाविति विपरिणामः । पूर्व चतुर्गुणं सहस्रमेवेत्यर्थः । वृत्तानुरोधेन विचित्रया शब्दवृत्त्या स एवार्थः कथ्यते ॥ १२० १२१ ॥ कामाद्दशगुणं पूर्व क्रोधात्त त्रिगुणं परम् ॥
1
अज्ञानाद्दे शते पूर्णे बाळिश्याच्छतमेव तु ॥ १२२ ॥
मन्मथः कामो यत्र स्त्रियो विवदन्ते तत्संबन्ध्यान्यतरं कामयमानोऽनृतं वदति । अर्धतृतीयानि सहस्राणि दण्ड्यते । क्रोधात्रिगुणं परं प्रथमसाहसस्य प्रकृतत्वात्ततः परो वध्यः । सर्वान्ते लोकविज्ञानादिति वा उत्तम एव परः । द्वेषः क्रोधः । अज्ञानादिति यो विपरीतं प्रथमं ब्रूद्रान्त्या । ननु प्रश्नकाले द्वे शते दमः प्रदर्शनमेव विपरीतं नाभि- १० धानम् । बालिश्यं वा बालभावः । अप्राप्तव्यवहारता । ईषदपक्रान्तबालभावस्याप्राप्तबुद्धिस्थैर्यस्यायं बालिश्यदण्डोऽन्यस्य त्वसाक्षितैव ॥ १२२ ॥
एतानाहुः कौटसाक्ष्ये प्रोक्तान्दण्डान्मनीषिभिः ॥ धर्मस्यान्यभिचारार्थमधर्मनियमाय च ॥ १२३ ॥
६१५
उभयप्रयोजनो दण्ड इति दर्शयत्यवश्यानुष्ठेयत्वाय शास्त्राचारनिरूढा व्यवस्था १५ धर्मस्तस्यान्यभिचारोऽनिवृत्तिरुच्यते ॥ १२३ ॥
कौटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः ॥
प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ १२४ ॥
सकृदपरराद्धानां पूर्वो दण्डः । अभ्यासात्प्रवर्तमानानां दण्डयित्वा प्रवासनं राष्ट्रान्निष्कासनं मरणं वाऽर्थशास्त्रे प्रयोगदर्शनात्तद्रूपत्वाच्च दण्डविधेः । ब्राह्मणं तु विवा - २० सयेत् वाससोऽपहरणं विवासनं गृहमंगो वा । विवाससं विवासं करोति तत्करोतीति णिचि णाविष्टवदिति टिलोपे रूपम् । त्रीन्वर्णानिति क्षत्रादयस्त्रयो ब्राह्मणस्य दण्डान्तरविधानात् ॥ १२४ ॥
For Private And Personal Use Only
१ फ-अप्रात्पबुद्धिस्थेर्येस्थायं । फ-क्ष- अप्राप्त बुद्धिस्थैर्यस्यायं बालिशोऽथ व्यवहारत ईषदपक्रान्तबालभावस्य दण्डोऽन्यस्य त्वसाक्षितैव । अप्राप्तव्यवहारता । ईषदपक्रान्त बालभावस्था प्राप्तबुद्धिस्थैर्यस्यायं बालिश्यदण्डोऽन्यस्य व्वसाक्षितैव । २ ण-य-र-निमूढौ । ३ + ण-य-र-धर्म अमर्यादितस्य नियम अप्रवृतिः प्रवृत्तस्थानादिःकालिकस्य धर्मस्य निवृत्तिर्यामुदप्रवृत्तायादत्संस्थाया प्रवृत्तिर्मा भूदिति । दंडनीयानिलतः कृतस्य क्षणः ज्ञायमनमपि प्रायो जनं स्तुत्यर्थमनूदते । ४ फ-गृहाभावो वा । ५ ण-य-र-क्षत्रियादयः ।