________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१२
मेधातिथिभाष्यसमलंकृता ।
[अष्टमः पूर्व जनम् ' ( अग्रे १२२) इत्यादिकं दण्डविधानं न युज्यते तथापि स हि निमित्तानन्तरकृते विवादोऽस्त्येव वृथाशपथदोष एव । एवं सर्वत्र विवाहेषु न त्वयाऽन्या वोढव्या न वाऽन्यो वोढव्येति अन्यस्यापि सुहृदादेविवाहार्थमेवंविधमनृतमदोषः । न पुनीत्यपह्नवादौ । गर्वा भक्ष्ये गवां यवससिध्यर्थ मयाऽपहर्तव्यं न मयाऽपहृतं न मयाऽपहर्तव्यं परस्य चातत्संबन्धिभिर्युक्तस्य वृथासाक्ष्ये शपमानस्य न दोषः । एवमिन्धने । ब्राह्मणानामभ्युपपत्तिरनुग्रहः । सर्ववर्णानुग्रहेऽनुज्ञातमेव । किमिह पुनर्वचनेन । केचिदाहुः । शपथो ब्राह्मणेऽनुज्ञायते । शूद्रादिषु त्वनृतमेव । तच्च — न हि सत्याद्विशिष्यते' इति वचनान्नैतदनृतमतो न तत्र प्रतिषेधो ह्यसौ वृथाशपयः । पूर्वेण प्रतिषिद्धस्य प्रतिप्रसवशास्त्रमेतत्सर्ववर्णानुग्रहे शपमानम्य न दोषः । किमर्थं तीदच्यते । तत्र वधात्परित्राणमुक्तं सर्ववर्णविषयम् । अभ्युपपत्तिस्तु ब्राह्मणस्यैव । सा हि धनलाभादिना संभवति । सर्वतश्च परसंबन्धिषु क्रियास्वेवंविधौ सुशपथाभ्यनुज्ञानमुपायान्तरेण तत्सिध्यसंभव एव द्रष्टव्यम् ॥ ११३ ॥
सत्येन शापयेद्विमं क्षत्रियं वाहनायुधैः ॥ गोबीजकाञ्चनैवैश्यं शुद्रं सर्वैस्तु पातकैः ॥ ११४ ॥
ननु च यद्यहमेवं कुर्या तदिदमनिष्टमाप्नुयामिति संकीर्तनक्रियाशपथं तं यः कारयेत्स शापयेदित्युच्यते । सत्येन शपे सत्यादिनिबन्धनोऽयं धर्मो वा मे निष्फलः स्यादिति । एवं चायुधानामपि करणत्वं वाहनानां च । एतैरात्मानं शपतो न वा निष्फलानि स्युरिति । गोबीजकाञ्चनानि वैश्यो हस्तेन स्पर्शयित्वाऽभिशपेदेतानि वा मे निष्फलानि पूर्ववत् । शूद्रं सर्वैस्तु पातकैर्वक्ष्यमाणानि पातकानि मे स्युरिति शूद्रो वाच्यते ॥ ११४ ॥
अग्निं वाऽऽहारयेदेनमप्सु चैनं निमज्जयेत् ॥
पुत्रदारस्य वाऽप्येनं शिरांसि स्पर्शयेत्पृथक् ॥ ११५ ॥
अग्निमाहारयेदेनं हस्तेनाश्वत्थपर्णव्यवहितेन तयोः प्रदेशान्तरं सप्तपदसंहितमित्यादिस्मृत्यन्तरान्निपुणतोऽन्वेप्यं पारंपर्यप्रसिद्धेश्चैतदेवोच्यते । अप्सु जले निमज्जयेत्
"१५
१ण-य-र-इत्यधिकदण्डविधानं । २ फ-करणुविधानं । ३ फ-विधिरतृतमदोषः । ४ फ-पुनःप्रेत्य बहुदोषः। ५ फ-मेवापयितव्यं । ६ फ-नत्वनृतमेतच्च । ७ फ-तत्र ह्येवमुच्यते । ८ फ-तत्र यः शाप्यते म एवं वाच्यते; ण-य-र-न तत्र शब्द एतदर्थप्रतिपादककरण न तु सती सत्यस्वरूपप्रधान एवायं सत्यशब्दः । सत्यं सत्यशब्देन शापयेत् । सत्यशब्दश्चैवं शापने करणे भवति । यदि यः शाप्यते स एवं वाच्यते । सत्येन शापो सत्याभिधानमपि करणत्वम् वावनायूद्यर्वत्मानं शपे तानिवामे निष्फलानि स्युरिति ।
फ-बाध्यते। १० फ-स्मृत्यन्तरानिपुणनत्वेऽन्वेष्यं ।
For Private And Personal Use Only