________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१०
मेधातिथिभाष्यसमलंकृता।
[ अष्टमः
तेन 'आपोहिष्टा' इत्यादिना । अतश्चैकैकया भावादेकैकाहुतिः प्रत्येकशब्दवत्तत्वेन समुदायाहुतिरेकेति घृतमग्नाविति सर्वत्रानुषङ्गः । यथाविधि यादृशः शिष्टसमाचार इत्यर्थः । तेन च विधिहीनत्वादप्राप्तायामितिकर्तव्यतायां परिसमूहनपर्युक्षणावोक्षणः सुवहोमाघेतावन्मात्रमनुजानाति । वाशब्दाद्वैकल्पिकाः सर्व एव ॥ १०७ ॥
त्रिपक्षादब्रुवन्साक्ष्यमृणादिषु नरोऽगदः॥ तणं प्रामुयात्सर्व दशबंधं च सर्वतः ॥ १०८॥
पञ्चदशाहोरात्राणि पक्षः । त्रयाणां पक्षाणां समाहारः त्रिपक्षम् । 'अकारान्तोत्तरपदो द्विगुः' इति स्त्रीत्वे प्राप्ते पात्रादिदर्शनात्प्रतिषेधः । यद्येवं त्रिपक्षीति न प्राप्नोति छान्दसस्तत्र लिङ्गव्यत्ययः। ल्यब्लोपे कर्मणि पञ्चमी । त्रीपक्षान्यावदतीत्य यः साक्ष्यं न ददाति अगदोऽपीडितशरीरस्तत्सदृशं प्राप्नुयादित्यर्थः । दशबन्धं च दशमं भागं दण्डनीयस्तस्मादृणात् । ऋणादिषु इत्यादिग्रहणेन सर्वव्यवहारोपक्रमः । द्वितीयमृणग्रहणमुपलक्षणार्थम् । यस्मिन्व्यवहारे साक्ष्यमियन्तं कालं भवति पराजीयमानस्य बाधः स साक्षिणो बाढमित्युक्तं भवति । गदो रोगस्तत्समानप्रत्युत्थानहेतूपलक्षणार्थ तेनात्र कुटुम्बोपद्रव
धनिकोपरोधाद्यपि परीक्ष्यम् । बन्धशब्दः सङ्ख्यादिपरो दण्डविषये दशमाषवचनः । १५ नरग्रहणं सर्वतोग्रहणं च श्लोकपूरणार्थम् ।
. अन्ये त्वाहुस्तदृणं प्राप्नुयादित्यस्यायमर्थः । ऋणोपहरणलक्षणेन पापेन युज्येत । राज्ञे वा जीयमानस्य यो दण्डस्ततो दशममंशं दद्यादिति दण्डितः पुनः पृच्छयते॥१०॥
यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः॥ रोगोऽग्निोतिमरणमृणं दाप्यो दमं च सः ॥ १०९ ॥
सप्ताहादिति पञ्चमीदर्शनादगित्यध्याहियते । सप्तानां दिवसानामन्यतमस्मिन्नहनि यस्य साक्षिणो रोगादि दृश्यते स मृषावादी देवेन विभावितः पूर्वोक्तेन विधिना दापयितव्यः । रोगोऽत्यन्तपीडाकरोऽग्निर्गोवाहनदहनः । पुत्रदारादिप्रत्यासन्नज्ञातिमरणं तस्य कूटसाक्षित्वे लिङ्गम् ॥ १०९ ॥
असाक्षिकेषु त्वर्थेषु मिथो विवदमानयोः । अविन्दंस्तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥ ११० ॥
अविद्यमानाः साक्षिणो येष्वर्थेषु व्यवहारेषु तेऽसाक्षिकाः । तेषु सत्यमजानानो राजा तत्त्वतो लौकिकेनानुमानेनापीत्यर्थः । तत्र शपथेनापि वक्ष्यमाणेन देवनानुमानेन लम्भयेत् जानीयात् । लभिः प्राप्तिवचनोऽपि सामर्थ्याजानात्यर्थः ॥ ११० ॥
१ण-त्रिपाक्षीति । २ फ-योवदतीत्ययं । ३ फ-गदति । ४ -य-र-बाध्यः फ-बोधा । ५ ण-य-र-सामर्थ्याजानपरो न ह्यन्यसत्यस्य लाभः । स वंदन्निति पाठे एवमेव वाख्ययम् । (असाख्येथ-- ) अक्षिकेषुत्वर्थेषु शपथ लयेदत्येव तावतावाद्वयुदेशवाक्यमावशात् श्लोक पूरणार्थमिथं परस्पर ।
For Private And Personal Use Only