________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता ।
[ अष्टमः
शरीरशोषणादिना कुतार्किकपठिता स्यादपि निमित्तावगतिस्तत्र किं भ्रंशयितुं शीलं संयुज्यतां कामिनां भवतु वा पुरुषव्यापिनीति नैतदेवं न हीदृशी भवन्त्यपि निमित्तता प्रतिषेधस्य विषयविध्यन्तरविरोधात् । अस्ति ह्यत्र व्यभिचारप्रतिषेधविधिः । न वाऽपि विध्यन्तरेणानवष्टब्धे विषये कृतावकाशा विधयो विरोधविध्यन्तरं विषयमास्कंदितुमर्हन्ति । येऽपि मन्यन्ते रागलक्षणां प्रवृत्तिं शीलसंरक्षणोपदेशो निषेधति न शास्त्रलक्षणां तेन महानुभावतया नास्य तपस्विनो जीवितुं चेच्छेदिति प्राणो जिहर्षिया मुमूर्षुणा संप्रयुज्यते नासौ व्यभिचारप्रतिषेधमतिकामेत् । यत्तु विध्यन्तरविषये न विध्यन्तरं प्रवर्तत इति नैवाय विध्यन्तरस्य विषयो रागलक्षणत्वात् । ननु च प्रवृत्तावपि नैव शास्त्रमस्ति नियोगविधाविव व्यभिचारानुज्ञानं स्मृत्यभावात् । अथाप्रवृत्तौ कामयेत मारणमिति प्रतिषेधभयात्प्रवर्तते सोऽपि प्रतिषेधो रागलक्षणामेव हिंसां प्रतिषेधयति । न चासौ रागतो न प्रवर्ततेऽपि तु प्रतिषेधभयात् या तु परोपकारतः प्रवृत्तिः साऽपि प्रतिषेधविषयपरिहारेण । योऽपि किंचिद्यावदयमहामात्मानं हन्मीति हन्यान्न तत्राप्रयच्छतो घातकत्वं व्यवहारोच्छेदप्रसङ्गात् ॥ १०५ ॥
वाग्दैवत्यैश्च चरुभिर्यजेरंस्ते सरस्वतीम् ।।
अनृतस्यैनसस्तस्य कुर्वाणा निष्कृतिं पराम् ॥ १०६ ॥ १५ वाक् चासौ देवता च सा वाग्देवता । तदर्थ च चरवो वाग्दैवत्यास्तण्डुला
नातिपक्वाश्वरवस्तैर्यजेरन्निति बहुवचननिर्देशात् । चरुभिरिति बहुवचनं न पुनरेकैकशो बहवश्चरवो नापि संहतानां व्रात्यस्तोमवद्यागो देवश्चेद्वर्षेद्बहवो ब्राह्मणा यजेरन्निति, तहहुवचनम् । ननु कापञ्जलैश्च त्रिभिर्यजेरंस्तदेतद्ब्राह्मणाद्यनुग्रहार्थमनृतमुक्तं भवति । अनृत
मेवैनः पापमसत्याभिधानलक्षणा क्रिया । यथा धर्मक्रियावत एवं समानाधिकरणे षष्ठी । २० येषां तु क्रियानन्यौ धर्माधर्मो न क्रियैव तन्मतेऽनृतस्य यदेन इति वैय्यधिकरण्येऽनृत
निमितत्त्वादेनोऽनृतम् । उपचारतः समानाधिकरणे एव । तस्य निष्कृतिः शोधनं पावनं प्रायश्चित्तमिति यावत् । परा प्रकृष्टा।
ननु च कुतोऽत्र पापं यावताऽस्मिन्निमित्तेनानृतवचने दोष इत्युक्तम् । केचिदाहुः " निवृत्तिस्तु महाफलेति " । अस्माच्छास्त्रात्तु यावज्जीवमनृतं मया न वक्तव्यमिति येन २५ संकल्पितं तस्य मिथ्यासंकल्पदोषो मा भूदिति प्रायश्चित्तमुच्यते । गेहदाहवर्धाप्रतिषेधेऽपि
नैमित्तिकं विधानमेनसो निष्कृतिमित्यर्थवादः । इदं तर्हि वाग्देवत्यैः सरस्वती यजेरन् । यदि वाग्देवत्याः सरस्वती कथमिष्यते । अथ वाक्सरस्वत्योरेकत्वेनैवं
१ फ-प्रात्यानुभावतया ! २ फ-प्रतिवृत्तावपि । ३ ण-य-र-संहत्यस्तोमवद्यागः। ४ ण-य-रअनृतमेव यतः। पापक्रिया। सेंद पनपापं । ५ अ. ५ श्लो. ५६।६ । ६ ण-य-र-वधा अप्रतिषेधेऽपि । ७ ण-य-र-हज्यते । ८ -अथवा सरस्वत्यारेकत्वेन ।
For Private And Personal Use Only