SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता। [ अष्टमः तमेतद्व्याख्यातृभिः मुख्योपचरितक्रिय इति चेतनावद्वस्तूपचारे भिक्षा वासयति कारीषोऽध्यापयतीति । न ह्यत्र चैतन्यकृत उपकारः । अपि तु निश्चित्तत्वात्तदन्यस्य प्रयोजकस्य अध्ययनं प्राचार्यकरणविधिप्रयुक्तं कुर्वाणस्य माणवकस्य शीतादिलक्षणं प्रतिबन्धकमनुवदति कारीपे प्रयोजकत्वाद्ध्यारोपः । प्रेरकत्वाद्धि प्रयोजकमुच्यते । तच्च चैतन्यस्य वायुजलादेरग्निकाष्ठादौ सुतरां दृश्यते । तदा विधिप्रयोजकस्तुतिप्रयोक्तृभिः प्रेषणाद्यभावाद्गौणार्थाः शब्दाः स्युः । अथैतत्स्थमर्थाचरणं प्रयोजकत्वं तच्च प्रयोजकस्य व्यापारानुगुणं प्रोषणादिव्यतिरिक्तक्रियान्तरावरणं संविधानाख्यं संविधान एव हि कारयतीत्युच्यते । यथा बुभुक्षमाणस्य कश्चित्पात्रमाहरत्यन्यो भक्तमुपनयति कस्यचिद्वधप्रवृत्तस्य कश्चिदायुधम र्पयत्यन्यो' वध्यदोषाविष्करणे. मन्युमुपदीपयति एवंलक्षणः प्रेषित्रादिरूंपरहितः १. सव्यापारः प्रयोज्यफलसिद्धावान कल्यं प्रतिपद्यमानस्तत्समर्थाचरणपक्षे प्रयोजकः । अस्मिन् पक्षे कारीषोपाध्यायौ तुल्यौ प्राप्नुतः । अत्रापि यमन्तरेण क्रियाया अनिवृत्तिर्यस्य च कारकविशेषसंज्ञा न प्रवतेत स मुख्यः प्रयोजकः कर्ता । अध्यापयितारं चान्तरेण कारीषो न शक्नोत्यध्ययनहेतुभावं प्रतिपत्तुम् । आचार्यस्तु तमन्तरेणापि शक्त एवेति गौणः कारीषः । यत्र च करणादिभावे निश्चितहेतुमत्प्रत्ययदर्शनात्तत्रापि गौणार्थतैव । यथा कश्चित्स्वल्पेनीपि १५ प्रयोजनेन दूरं ग्रामं पुनः पुनर्गतवन्तं दृष्टा ब्रवीति · अश्वो गमयति देवदत्तम् ' इति । यत्र तु न कस्यचिदासत्तिविप्रकर्षावन्तरङ्गबहिरङ्गभावो वा गम्यते तत्र यावन्तस्तदानुकूल्यं प्रतिपद्यन्ते सर्वे ते प्रयोजकाः ।। ननु च कारकसंज्ञायामन्तरङ्गयोगो नास्तीति को विशेषः कारीषोपाध्याययोः । स्वप्रक्रियैव सा तत्र भवताम् । न वस्त्वाश्रया । वस्त्वाश्रयौ च विधिप्रतिषेधौ । इदमपि तत्र २० पठ्यते । विवक्षातः कारकौणि भवन्तीति । एवं च सति यत्राकर्तरेव कर्तत्वं कश्चिद्विवक्षेत्तत्र कर्तृप्रत्ययविधिप्रतिषेधावपि स्यातां । यथा पातकपरिगणनायाम पठति " क्रयविक्रया संस्कर्ता चोपहर्ता चेति"। तस्मादन्वाख्यानसिद्धयर्थे तान्त्रिकी सा व्यवस्था न वस्त्वधिष्ठानमर्थमवस्कन्दति । अत एव व्याख्यातृभिस्तत्समर्थाचरणं चेद्वेतुमात्रे प्रसङ्गः । ततश्च योऽपि कस्मैचिद्भोजनं ददाति स चौदरिकतयाऽतिसौहित्येन व्यापद्येत प्राप्तं तत्र दातुर्वध२५ कर्तृत्वमिति । न च तत्प्रयुक्तं भवति । क्रियान्तरेण ह्यसौ निश्चितो भोजनाख्यप्रयोजको न वधो न वैर्ष्यादि कथंचिन्निमित्तं भवति । भवतु प्रयोजकत्वाभावात्तु कर्तृत्वं नास्तीति ब्रूमः । १ण-य-र-चारेण । २ फ-अध्यापयति । २ फ-आचार्यविधिप्रयुक्तं । ४ फ-समर्थाचरणं । ५५ ब-र-संविद्वानेव । ६ फ-अस्यो। ७ फ-क्ष-दोषाधिकरणे म वध्यं भवेयति । ८ फ-क्ष-रूपोराहितः ९ ण-य-र-सव्य :पारेः । १० फ-प्रवर्तन्ते । ११ फ-गुणः । १२ फ-स्वल्पो । १३ फ-क्ष-करण कार आणि । १० अ. ५ श्लो. ५१ । १५ फ-सिध्यर्थानां तावकी । १६ ण-य-र-वधेन । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy