SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६०४ मेधातिथिभाष्यसमलंकृता । [ अष्टमः ' च मैथुनाख्ये केनेयं स्त्री भुक्ता मैथुनधर्मेणेति । अब्जेषु रत्नेषु मणयो रत्नानि मुक्ताद्या अश्ममयेषु वैडूर्यादिषु । रत्नेष्विति संबध्यते । 'द्विविधान्येव रत्नानि जलजान्यश्ममयानि च । अतो रत्नग्रहण एव कर्तव्ये विशेषणद्वयोपादानं श्लोकपूरणार्थम् । अद्भयो जातान्यनानि । अश्मनो विकारा अश्ममयानि ॥ १०१ ॥ एतान्दोषानवेक्ष्य त्वं सर्वाननृतभाषणे । यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वद ॥ १०२ ॥ उहापोहौ वर्जयित्वा यथादृष्टं यथाश्रुतं दृष्टं तत्वेन ब्रूहि ॥ १०२ ॥ * गोरक्षकान्वाणिजिकांस्तथा कारुकुशीलवान् । प्रेष्यान्वार्द्धषिकांश्चैव विप्रान शुद्रपदाचरेत् ।। १०३ ॥ १० कारवः शिल्पिनस्तक्षायस्कारसूपकरादयः । कुशीलवा नर्तकगायनाद्याः । प्रेष्या जीविकाथै परस्याज्ञाकारों दासा इति प्रसिद्धाः । वार्धषिका वृद्धयुपजीविनः । एते ब्राह्मणा अपि सन्तः प्रकरणात्साक्ष्ये शपथे च शूद्रवद्दष्टव्या न क्रियांतरे । यथा शूद्रो न दानपुण्यादिना पृच्छयते साक्ष्ये शपथे चाग्निहरणादिना शोध्यते तद्वदेषोऽपि शपथो यद्यपि पूर्वत्राप्रकृतः तथाप्युत्तरत्रानन्तर्यादोषवत्वात्प्रयतत्वात् प्रयतत्वेऽप्या१५ नन्तर्यस्य संबन्धहेतुत्वाद्वक्ष्यमाणस्यापि प्रत्यासत्त्या पूर्ववद्वयोसन्निपातात् शपथेऽपि तुल्यम् ॥ १०३ ॥ तद्वदन् धर्मतोऽर्थेषु जाननप्यन्यथा नरः॥ न स्वर्गाच्च्यवते लोकादेवीं वाचं वदन्ति ताम् ॥ १०४ ॥ तदन्यथाऽपि जानन्नन्यथा वदन्न स्वर्गाश्यति । कूटमपि वदन्न दुप्यतीत्यर्थः २० किं सर्वदेव ? नेत्याह । धर्मतोऽर्थेषु धर्मेण दयादिना निमित्तेनार्थषु व्यवहारेषु । धर्मस्य च निमित्तत्वमुक्तमुत्तर श्लोके दर्शयिष्यति । एतच्च न स्वमनीषिकयोच्यते । किं तयेतां वाचं वदन्ति अस्मात्पूर्वेऽविस्मर्तारः का पुनर्दैवी वाग्ययाऽस्मिन्निमित्तेऽनृतं वदितव्यमित्येषा देवानां संबन्धिनी वाक् ता मन्वादयः श्रुत्वा वदन्तीति विशेषेऽनृतप्रशंसा । अन्यैस्तु पूर्वविधि शेषतयाऽयं श्लोको व्याख्यातः। तदेतद्गोरक्षकादिप्वनुयोगवाक्येषु ब्राह्मणेषु भवितव्यमन्यथा * [ये प्यतीताः स्वधर्मेभ्यः परपिण्डोपजीविनः । द्विजत्वमभिकांक्षन्ति तांश्च शूद्रानियाचरेत् ॥ १॥] १ फ-विविधानि । २ फ-क्ष-कारा । ३ ठ-ण-र-संभवः । ४ फ-प्रकृतस्था ।५ ठ-ण-र-प्रात. येतत्वात्प्रज्ञतते । ६ठ-ण-र-तदेवदन्यथापि। ७ठ-ण-र-लोके व्याख्यातः । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy