________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०२
मेधातिथिभाष्यसमलंकृता ।
[ अष्टमः
द्रव्यभेदात्साक्ष्यभेदस्तत्र समानाधिकरण एव । तावत इति परिमाणे व्युत्पाद्यते । तत्र यत्प्रभूतनिमित्तमपि परिमाणं संभाव्यते । शिशन्धियो वृद्धान् इत्यतो विशिनष्टिसंख्ययेति । अनुपूर्वश इति सुखप्रतिपत्तयेऽनुपूर्वेण ह्यभिधीयमानं सुखेन प्रतीयते । आनुपूर्वी च सङ्ख्या गताऽत्राभिप्रेता । तस्या एव वक्ष्यमाणत्वात् ‘पञ्च पश्वेत्यादि ॥९८॥
x पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ ९९ ॥
पशुनिमित्तमनृतम् । शाकपार्थिववत्समासः । पञ्चबान्धवांश्चानृतं हन्ति । ततश्च तेष नरकपातनं मातापितरौ जायामिथुनं चापत्यमिति पञ्च कथं पुनरन्यकृतेनैनसाऽन्यस्य फलम्।
संसर्गादिति ब्रूमः । तैरयं परित्यज्यत इत्युक्तं भवति । अथवा तैर्हतैर्यत्पापं तदस्य भवती१० त्यघ्नन्नपि हन्तीत्युच्यते । अदृष्ट कार्यतुल्यत्वात् अर्थवादश्चायं न तत्कार्योपदेशस्तत्कार्योप
देशे हि हिंसाप्रायश्चित्ती स्यात्कौटसाक्ष्यप्रायश्चित्तमेतद्भवति । उत्तरोत्तरसङ्ख्यादिवृद्धिः प्रायश्चित्तगौरवार्था न पुनर्विवक्षितैव तेनोत्तरोत्तरस्य गरीयः प्रायश्चितमित्युक्तं भवति । अयं पुरुषः कस्य दास इत्येवं संशये यदनृतं तत्पुरुषानृतमुच्यते ॥ ९९ ॥
* हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन ॥ १५ सर्व भूम्यनृते हन्ति माऽस्म भूम्यनृतं वदीः ॥ १० ॥
कथं पुनरजातानामसति संसर्गे परकीयेन संयोगो येनेदमुच्यते । हन्ति जातानुजातांश्चेति उक्तमर्थवादोऽयमिति । सर्व भूम्यनृतं वदः । माऽवादीः भूमिसंबन्ध्यसत्यं स्मोत्तरे लङ् च ' ( ३।३।१७६ ) इति । माऽवादीरित्यादराथै मध्यमे प्रत्यक्षं संबोधनम् । का
पुनरियं भूमिर्नाम यदेतत्पृथिवीगोलकं पर्वतावष्टंभनं सागरावधि प्रसिद्धं न वियत्याः कः २० स्वामी को वाऽपहर्ता । न हि सार्वभौमः कश्चिदस्ति । तथा च गाथा भूमेः-" न
मा मर्त्यः कश्चन दातुमर्हति"। न कश्चित्सार्वभौमोऽस्तीत्यभिप्रायः। विश्वकर्मा भौवनमादिशद्विश्वकर्मभौमनेति पितृव्यपदेशेन स्वनाम्ना च राज्ञामन्त्रणं श्रुतं मयाऽसौ रन्तुमिछतीति
x [एवं संबन्धनात्तस्मान्मुच्यते नियतावृतः।
पशून्गोश्वपुरुषाणां हिरण्यं भूर्यथाक्रमम् ॥१॥] * [ पशुवत्क्षौद्रघृतयोर्यच्चान्यत्पशुसंभवम् ।। गोवद्वस्त्रहिरण्येषु धान्यपुष्पफलेषु च ॥
अश्ववत्सर्वयानेषु खराष्ट्रवतरादिषु ॥] १ फ-संदयाते । २ ठ-ग-य-र-प्रतियति । ३ फ-संयोगेनेद । ४ ठ-ण-य-र-लवादः। ५फ-क्ष-मप्येतत्प्रत्यक्षं । ६ क्ष-नन्वियत्याः ।
For Private And Personal Use Only