SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः मनुस्मृतिः। निमित्तं पृष्टो यो वितथमसत्यं वक्ति स तेन किल्विषेन पापेन गृहीत ऊर्ध्वपादोऽधोमुखो महति गाढे तमसि नरक यातनास्थानं तत्प्राप्नोतीत्यर्थः । अन्यस्मिंस्तमसि किंचिद्देश्यले तत्र तु न किंचिदेवेत्यन्धग्रहणम् ॥ ९ ॥ _अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह ॥ यो भाषतेऽर्थवैकल्यमप्रत्यक्षं सभा गतः ॥ ९६ ॥ अर्थवैकल्यं सत्यादपेतं भाषते । यथा कण्टका असिता भक्षिता जनयन्ति न तादृशी मत्स्याः प्रीतिं जनयन्ति । यदा धनलोभेन काचित्प्रीतिमात्रा भवति तथापि मोहदुःखं भवतीति सकण्टकमत्स्याशनोपमा ॥ ९६ ॥ यस्य विद्वान् हि वदतः क्षेत्रज्ञो नातिशङ्कन्ते । तस्मिन्न देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः ॥ ९७ ॥ यस्य वदतः साक्षिणो विद्वान्सत्यानृते जानानः क्षेत्रज्ञोऽन्तर्यामी पुरुषो नौतिशङ्कते किमयं सत्यं वक्ष्यत्यनृतं वेत्येवं नाशङ्कते निश्चितमेवैष सत्यं वक्तीति यस्यात्मा निर्विशङ्कस्तस्मात्पुरुषान्नान्यं श्रेयांसं श्रेष्ठं प्रशस्ततमं पुरुषं देवा जानते । कः पुनरयं वेदिता । कश्च ततोऽन्य आशङ्किता । एक एव ह्यात्मा सुप्रपन्नद्वारेण वाचेमीरयन्वेदिता संपद्यते । स एव तद्धर्मेण किं कथं स्यादित्येवंरूपेणाशङ्काख्यानेन १५ युज्यते । तत्र भेदानुपपत्तिः । सत्यमेतत् । काल्पनिकेन भेदेनैवमुक्तम् । यथा हन्त्यात्मानमात्मनेति ॥ ९७ ॥ यावतो बान्धवान्यस्मिन्हन्ति साक्ष्येऽनृतं वदन् ! तावतः संख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥ ९८॥ द्रव्यविशेषानृताश्रयाः पापविशेषाः कूटसाक्षिण इत्येतत्प्रदर्शनार्थ प्रकरणमारभ्यते। २० तत्रायं श्लोकः संबन्धो धनद्वारेणोपदिश्यमान आदरार्थः संपद्यते । यद्गुह्यं मिथ उपदिश्यते तद्यथाकथंचिद्भवतीत्यवधारितं ग्रहणं नातिगुरु इदं त्वतिमहाप्रयोजनमवहितैः श्रोतव्यमिति । सौम्यति चैकवचनमनेकशिष्यसन्निधाने भूगीवेव विवक्षितम् । यस्मिन् साक्ष्य इति व्यधिकरणसप्तमी । यस्मिन् द्रव्यभेदभिन्ने व्यवहारे यत्साक्ष्यं तत्र तन्निमित्तं, २५ यदनृतमित्येषा विषयसप्तमी अपरा ' यस्य च भावेनेति ' ( व्या. सू. २।३।३७)। अथवा १ ण-र-याति । २ ण-य-र-अर्थादपेतात्सत्यं । ३ फ-अभि । ४ फ-क्ष-नाशंकते ५ण-य-र-वाचा। ६-य-र-वदिता । ७ण-य-र-चित्तेवर्मि। ८ ण-य-र-याम्योपविशेषाः ९ण-य-र-यत्पूयं । १० ण-य-र-सुग्रं । ११ ठ-ण-य-र-भृगोरविवक्षितं ।। ७६-७७ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy