________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
१९५
साक्षादनुभवनमर्थविषयमृणप्रयोगदण्डपारुष्यादि साक्षादृष्टं चक्षुर्व्यापारेण वाक्पारुष्यंतथेदमस्मान्मया गृहीतमित्येवमादिविषयं शब्दश्रवणं यद्यपि दृशिरुपलब्धिमात्रवचनः तथापि यद्यत्वृत्तानुरोधितया श्रोत्रज्ञानं श्रवणं भेदेनोपात्तम् एतावच्चात्र विवक्षितम् । प्रमाणतो येनानुभूतं स साक्षी । समक्षशब्दग्रहणं प्रमाणमात्रोपलक्षणार्थम् । तेनानुमानादिना ऽप्यनुभूतमनुभूतमेव । अत आप्तागमाच्छूतमेप्रत्यक्षमपि प्रमाणम् । उत्तरस्तु श्लोकोऽनुवाद ५ एव । सत्यवचनस्य विहितत्वात् । असत्यवादिनो धर्मार्थहानेश्च प्रमाणान्तरावगतत्वात्॥७॥
___ साक्षी दृष्टश्रुतादन्यद्विब्रुवन्नार्यसंसदि ॥
अवाकरकमभ्येति प्रेत्य स्वर्गाच्च हीयते ॥ ७६ ॥ असत्याभिधाने साक्षिणां फलदर्शनार्थमिदम् । दृष्टश्रुतशब्द उपलब्धिपर्याय इत्युक्तम् । तस्मादन्यदनुपलब्धं तच्चेद्रवीति । आर्याः सभ्याः सम्यकारिणः । तेषां १० संसदि सभायामवाङ् अधोमुखः नरकं" याम यातनास्थानं गच्छति । प्रेत्य मृत्वा स्वर्गाच्च हीयते भ्रश्यति । यदप्यनेन स्वर्गारोहणिकं कर्म कृतं तदपि कौटसाक्ष्यपापस्य गुरुत्वात्प्रतिबध्यते । न तु स्वर्गस्य कर्मणः पापेनान्येन नाशः। स्वफलविधित्वात् कर्मणामन्यत्र प्रायश्चित्तेभ्यः ॥ ७६ ॥
यत्रानिबद्धोऽपीक्षेत शृणुयाद्वाऽपि किंचन ॥
दृष्टस्तत्रापि तद्रूयाद्यथादृष्टं यथाश्रुतम् ॥ ७७ ॥ ननु चोक्तं समक्षदर्शनादित्यत्र यर्थाकथंचिदनुभूतवतोऽनियुक्तस्यापि साक्ष्यमस्तीति । तत्र किमनेन यत्रानिबद्धोऽपीति । को वा "विशेषः। उच्यते। लेख्यारूढस्य व्यापारविशेषायुक्तं साक्षित्वं न पुनरनारूढस्य । आरोहणस्यानर्थक्यप्रसङ्गादुःसाक्षित्वम् । अत एतामाशङ्कामपनेतुमिदमुच्यते । पूर्वस्तु श्लोको यत्र मुक्तकाः साक्षिणः । अयं तु २० यत्र ससाक्षिकं लेख्यम् । अनिबद्धो लेख्यमनारूढोऽपीत्यर्थः । ईक्षणश्रवणे व्याख्याते । शेष सुबोधम् ॥ ७७ ॥
एको लुब्धस्तु साक्षी स्यादन्यः शुच्योऽपि न स्त्रियः॥
स्त्रीबुद्धरस्थिरत्वात्तु दोषैश्चान्येऽपि ये वृताः ॥ ७८ ॥ एकस्य पुनः प्रतिषेधो लोमादिरहितस्य प्रतिप्रसवार्थः । तेन सत्यवादितया निश्चित २५ एकोऽपि साक्षी भवत्येव । स्त्रियस्तु न कथंचित्साक्ष्यमर्हन्त्यल्पा वा बव्यो वा शुच्योऽपीति
१फ-प्रायणं । २ ण-य-र-वचनं ।३ फ-तत्रापि । ४ ण-य-र-न साक्षी । ५ फ-गमाश्च तस्य प्रत्यक्षमपि-६ ण-य-र-र्धानुवाद- । ७ र-ण-एषैति। ८ र-ण-दर्शनमिदं । ९ र-ण-उपलब्धे, । १.फ-तद्रवीति । ११ फ-सत्कारिणः । १२ फ-+याति । १३ फ-णकं । १४फ-अनेन । १५ फ-यथा. वदभूतवचने। १६ फ-शेष । १७ फ-अन्वारूढस्य । १८ फ-प्रसंगादत्रयोः साक्षित्वे अत एतदाशङ्कामप. नेतुमिदमुत्र्यते । १९ फ-अनुक्राः । २० फ-अल्पावबोधावाशुच्योपीति ।
For Private And Personal Use Only