SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [ अष्टमः अस्फुटाऽपरिपूर्णाक्षरत्वं च । एतच्च बालादीनामवस्थोपलक्षणार्थम् । ये च वयसा व्याधिना वाऽप्यवस्थामियतीं गता यदन्यद्विवक्षन्तोऽन्यदुच्चारयन्ति तच्चाव्यक्तं न ते साक्षिणः । एतत्प्रत्यक्षवेद्यमसाक्षित्वकारणम् । अन्यत्तु रागद्वेषधनलोभादिसाधारणमनुमानतः परीक्ष्यम् । तच्चोक्तमेव । उतिसक्तचेतसः प्रकृत्यैवोपप्लुता अधीरधियः ॥ ७२ ॥ साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च ॥ वाग्दण्डयोश्च पारुष्ये न परीक्षेत साक्षिणः ॥ ७३ ॥ सहो बलं तदाश्रित्य यत्क्रियते तत्साहसम् । रानवाल्लम्येन महापक्षतया स्वशरीरबलेन बलवदाश्रयेण वा यदर्यिकरणं तत्साहसम् । यथा वस्त्रपाटनाग्निदाहकेशंछेदाद्यन्य प्रसिद्धम् । अत्र साक्षिणो न परक्ष्यिाः । ' गृहिणः पुत्रिण' इत्येवमादिरूपपरीक्षाऽत्र १. प्रतिषिध्यते । या तु व्यभिचारहेतुतया शङ्कयते रागद्वेषधनलोभौदिरूपा सा कर्तव्यैवं । दृष्टमूलत्वादस्याः स्मृतेरित्युक्तम् ॥ ७३ ॥ बहुत्वं परिगृह्णीयात्साक्षिद्वैधे नराधिपः॥ समेषु तु गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥ ७४ ॥ यत्र भूमिभागादौ विप्रतिपत्तिाभ्यां च भोगसाधनं साक्षिणो निर्दिष्टाः । ते च १५ केचिदर्थिनो भोगमाहुरपरे प्रत्यार्थिनस्तत्र बहूनां वचनं ग्राह्यं । समसङ्ख्येषु तु ये गुणैरुत्कृष्टा बहुगुणा इत्यर्थः । एकेन वा गुणेन दृष्टे पुरुषार्थोपकारिणा सातिशयेन युक्ताः। गुणवतां समगुणानां भेदे नातिरादर्तव्या । सर्वसाम्ये शपथः । अन्यद्वा अनुमाने बहुत्वं परिगृह्णीयात् । बहूनां वचनं प्रमाणीकुर्यात् । द्वैषं परस्परविरुद्धार्थाभिधानम् ॥७॥ समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्याति ॥ तत्र सत्यं ब्रुवन्साक्षी धमार्थाभ्यां न हीयते ॥ ७५ ॥ ननु च "अनुभीवी तु यः कश्चित्" इत्यनेनोक्तमेवैतत्कथं चान्यथासिद्धिराशङ्कयते येनेदमुच्यते दर्शनश्रवणाभ्यां साक्ष्यसिद्धिरिति। अत्रोच्यते। साक्षी व्यवहरिष्यता कर्तव्यः त्वं में साक्षी भविष्यास इत्युक्तं । तत्र य एवमनुक्तः स न प्राप्नोति एवमर्थमिदमुच्यते । यस्तत्र संनिहितः कथंचिदनुभविता त्वं स्मर्तुमर्हस्यावयोरै{मर्थमित्येवमनुक्तेऽपि २५ भवत्येव साक्षी । समक्षदर्शनात्साक्षादनुभवाच्छ्रवणाच्च समक्षशब्दानुषङ्गः क्वर्तव्यः । यत्कृतश्चिदेकेन श्रूयते ततोऽन्येन तत्परंपराश्रुतं तेन परंपराश्रावी न साक्षी । यथैतेनेदम____ कार्य कृतमिदमस्मै वा धारयतीति लोकप्रसिद्धयाऽगतम् । न तु प्रमाणतः। तत्र समक्षदर्शनं . १फ-परिपूर्णाक्षरत्वं; य-अस्फुटा अपि पूर्णाक्षरत्वं च । २ण-य-र-नियती नीताः। ३ फअन्यद् । ४ फ-प्रबललोभादिः । ५फ-तथा च । ६ य-प्रकृती; ण-र-प्रकृते। ७ य-र-प-यत् । ८ फ-वल्लभेन । ९ य-यदा । १० फ-कर। ११ फ-तत्र । १२ ण-र-लोभरूपा १३ फ-कर्तव्या । १४ फ-ख-ड-क्ष रूढदृष्टमूलतान। १५फ-समानं। १६ य-र-ण-चाभावी च यः । १७ य-सिद्धिमाशं १८फ-साक्षि । १९ फ-तत्र। २० फ-अस्मात् । २१ फ-नोक्तः। २२ फ-इमम् । २३ फभवान् । २४ फ-साक्ष्य । २५ फ-ननु । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy