________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
ताभिः सार्धमिदं जगत्सर्वं सम्भवत्युत्पद्यते । अनुपूर्वशः क्रमेण । सूक्ष्मात्स्थूलं स्थूलात्स्थूलतरम् । यादृशो वा क्रम उक्तः प्राक् ॥ २७ ॥
यं तु कर्मणि यस्मिन्स न्ययुङ्क्त प्रथमं प्रभुः ।। स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः ॥ २८ ॥
अस्यायमर्थः। यद्यपि प्रजापतिरीश्वरो भूतसृष्टौ शक्नोति यथेच्छं प्राणिनः स्रष्टुं तथापि न पूर्वकल्पकृतानि कर्माण्यनपेक्ष्य प्राणिनः सृजति येन यादृशं पुराकल्पे कर्म कृतं तत्कमक्षिप्तायां जातौ तं जनयति । न जात्यन्तरे । शुभेन कर्मणा तत्फलोपभोग्यायां देवमनुष्यादिजातौ जनयति, विपरीतेन तिर्यक्प्रेतादिषु । यथैव भूतेन्द्रियगुणाः कल्पादौ प्रकृतिस्था उद्भवन्ति एवं कर्माण्यपि प्रलये स्वप्रकृतिस्थानि पुनरुद्भवन्ति सर्गादौ । ' ततः शेषेणे' त्येष न्यायस्तत्राप्यस्त्येव ।
For Private And Personal Use Only
११
१५
1
यदि तर्हि कर्मापेक्षोत्पत्तिः क्व प्रजापतेरैश्वर्यमुपयोगि कीदृशं वा सापेक्षमैश्वर्यं तस्मिन् सति जगत उत्पत्तेः । कथमनुपयोगः न तमन्तरेण स्थित्युत्पत्तिप्रलयाः सन्ति नित्यत्वातस्य स्वकृतान्यपि कर्माणि कारणं तदिच्छाऽपि प्रकृतिपरिणामश्च । एतस्याः कारणसामग्र्या इदं जगदुत्पद्यते तिष्ठति प्रलीयते च । सापेक्षस्याप्यैश्वर्यं विहन्यते यथेह राजादि - रीश्वरो भृत्यादीन् फलेन योजयेदेवमेवादिकर्मानुरूपेणैव योजयति । न चानीश्वरः । ननु नास्य श्लोकस्यायमर्थः प्रतीयते । किं तर्हि प्रतीयते ? विधातुरेव प्राणिनां कर्म - विनियोगे स्वातन्त्र्यम् । स यं प्राणिनं प्रथमं सर्गादौ यस्मिन् कर्मणि हिंसात्मके तद्विपरीते वा न्ययुक्त स तदेव कर्म भजते करोति न पित्रादेरनुशासनमपेक्ष्य स्वेच्छयाऽन्यथा प्रवर्तते । किं तर्हि प्राक्प्रजापतिनियोगवशात्साध्वसाधु वा स्वयमन्यानुशासननिरपेक्षोऽनुतिष्ठति । सृज्यमानः पुनर्जायमानः कल्पान्तरेऽस्मिन्नेव वा कल्पे प्रजापतिरेव क्षेत्रज्ञां- २० स्तत्कर्तृत्वेन नियुङ्क्ते । अतस्तन्नियोगमेवानुवर्तमानाः प्राचीनं शुभमशुभं वा कर्म कुर्वन्ति । तदुक्तम् । “कर्तृत्वं प्रतिपद्यन्ते अनीशाः स्वेषु कर्मसु । महेश्वरेण प्रेर्यन्ते शुभे वा यदि वाऽशुभे” इति।“ अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा” । उच्यते । एवं सति कर्मफलसंबन्धस्त्यक्तः स्यात् पुरुषकारानर्थक्यं च स्यादग्निहोत्रादिकर्माद्युपदेशो ब्रह्मोपासनाश्च व्यर्थाः प्रसज्येरन् । य एवेश्वरस्वरूपा - २५ नभिज्ञास्त एव दृष्टादृष्टार्थेषु कर्मसु प्रवर्तेरन् । ये तु तदधीनं कर्तृत्वं भोक्तृत्वं च मन्यन्ते तेषां सर्वत्राप्रवृत्तिप्रसङ्गः । कृतमपि न तत्कर्म फलति । अकर्तारोऽपि भोक्ष्यामह इति मन्यमाना उदासीरन् । न च व्याधिरिवापथ्याद्विदुषां बलादिच्छोपजायते कर्तृत्व ईश्वरप्रेरणया । अथ कर्मफलसृष्ट्या तदिच्छा निश्चिता अस्मात्कर्मण इदं कर्तृफलं भवतीति ।
1
१ अ - ख-क-फ-सापक्षस्यैश्वर्यं ।