________________
Shri Mahavir Jain Aradhana Kendra
२०
५
www.kobatirth.org
३०
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ प्रथमः
वाचोयुक्तिः सृष्टिं ससर्जेति य एवार्थः सृष्टिं कृतवानिति । सर्वे धातवः करोत्यर्थस्य विशेघावच्छिन्ने वर्तन्ते । पचति पाकं करोति, यजति यागं करोति । तत्र कृदन्ताद्विशेषेsaगत आख्यातगतो धातुः करोत्यर्थमात्रप्रतिपादनपरो भवति । तन्मिन्नपि कुतश्चित्प्रतिपन्ने पुनःप्रतिपादनेऽनुवाददोषो मा भूदिति कालकारकादिषु तात्पर्यम् । अथवा सृज्यमानविशेषाः प्रमाणावच्छिन्ना सृष्टिः सामान्यसृष्टेः कर्म; यथा स्वपोषं पुष्ट इति ॥ २५ ॥
कर्मणां च विवेकार्थी धर्माधर्मौ व्यवेचयत् ॥ द्वन्द्वैरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः ॥ २६ ॥
1
धर्माधर्मौ व्यवेचयद्विवेकेन पृथग्भावेन व्यवस्थापितवान् । अयं धर्म एवायमधर्म १० एव । ननु च नैवायं विवेकोऽस्ति । सन्ति हि कर्माण्युभयरूपाणि धर्माधर्मात्मकानि । यथाहुः शबलानि वैदिकानि कर्माणि हिंसासाधनकत्वात् । यथा ज्योतिष्टोमस्वरूपेण धर्मो हिंसाङ्गत्वात्त्वधर्म इति अत आह । कर्मणां तु विवेकाय । कर्मशब्देनात्र प्रयोगः कर्मणामनुष्ठानमुच्यते । स एव पदार्थोऽन्यथाप्रयुज्यमानो विपरीतस्वभावो भवति । धर्मः सन्नधर्मरूपतामापद्यतेऽधर्मो धर्मत्वम् । तथा हिंसैव हिंसा बहिःप्रयुज्यमाना अधर्मः सः ११ 'न हिंस्यात्सर्वभूतानीति' प्रतिषेधगोचरत्वात् । अन्तर्वेदिकृता अग्नीषोमीये धर्मः विधि - क्षणत्वात् । एवं तयोर्धर्मस्तदेव तु दम्भेनासमर्थो न वा क्रियमाणमधर्मः । एवं देवरगमनं स्त्रीणामधर्मो, गुरुनियुक्तानां पुत्रार्थिनीनां घृताक्ताद्यनुग्रहेण धर्मः । अतः स्वरूपै - कत्वेऽपि प्रयोगभेदाद्धर्माधर्मव्यवस्था । एकत्वं च प्रमाणान्तरदृष्ट्या तु स्वरूपभेद एव । अथ च कर्मफलेषु कर्मशब्दः कारणे कार्योपचारात् । तेनैतदुक्तं भवति । कर्माणि व्यवे२० चयत् कर्मफलविभागाय । कः पुनः कर्मणां फलविभागोऽत उक्तं द्वन्द्वैरयोजयत् सुखदुःखादिभिः । धर्मस्य फलं सुखमधर्मस्य दुःखम् । अत उभयकारिणो द्वन्द्वैयज्यन्ते धर्मकारित्वात्सुखेनाधर्मकारित्वाहुः खेन । द्वन्द्वशब्दोऽयं रूढया परस्परविरुद्धेषु पीडाकरेषु वर्तते शीतोष्णवृष्ट्यातपक्षुत्सौहित्यादिषु । आदिग्रहणं सामान्यविशेषभावेन ज्ञेयम् । केवलौ सुखदुःखशब्दौ स्वर्गनरकयोर्वाचकौ निरतिशयानन्दपरितापवचनौ वा । विशेष२५ स्वर्गग्रामपुत्रपश्वादिलाभस्तदपहारश्चादिशब्दस्य विषयः । कर्मणां पूर्वमुत्पत्तिरुक्ताऽनेन तेषामेव प्रयोगविभागः फलविभागश्च प्रजापतिना कृत इति प्रतिपाद्यविवेकः ॥ २६॥
1
अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः ॥ ताभिः सार्धमिदं सर्व संभवत्यनुपूर्वशः ।। २७ ।।
उपसंहारोऽयम् । दशार्धानां पञ्चानां महाभूतानां या अण्व्यः सूक्ष्मा मात्रा अव
• यवास्तन्मात्रास्ता विनाशिन्यः, परिणामधार्मित्वात् स्थौल्यप्रतिपत्त्या विनाशिन्य उच्यन्ते,
For Private And Personal Use Only