SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः] मनुस्मृतिः। लक्षणं ब्रह्म वेदाख्यं दुदोह । द्विकर्मकोऽयं धातुः । प्रधानं कर्मत्रयम् । अप्रधानेन द्वितीयेन कर्मणा भवितव्यम् । न च तदस्ति । अतः पञ्चम्येवेयमिति मन्यामहे । अग्न्यादिभ्यो दुदोहाक्षारयदभावयत् । कथं पुनरम्न्यादिभ्यो वर्णात्मा शब्दो मन्त्रवाक्यानि ब्राह्मणवाक्यानि च भवेयुः । किं नोपपद्यते ? कैः शक्तीरदृष्टा असतीर्वक्तुमर्हति । नाख्याताओं विकल्पयितुं युक्तः । पञ्चमी तर्हि किमर्थ ? 'दुहि याचीति द्वितीयया भवितव्यम् । किंच ५ दृष्टप्रमाणविरोधी प्राग्वृत्तोऽर्थ उच्यमानो मनसः परितोषमाधत्ते । प्रामाणिकानां परिहतो विरोधः । स्वरूपपरत्वाश्रयणेनैषामागमानामृग्वेद एवाग्नेरजायत, यजुर्वेदो वायोः, सामवेद आदित्यादिति । अग्न्यादयोऽपि देवता ऐश्वर्यभाजो निरतिशयशक्तिश्च प्रजापतिस्तत्र का नामानुपपत्तिः? अस्मिन् दर्शने पञ्चम्यपि विवक्ष्या । अतः कारकाणि कथितान्यत्रापादानसंज्ञेत्यपादानविवक्षायां भाष्ये समर्थितानि । अन्यदर्शने कथं चतुर्थी तावद्युक्तैव । १० अर्थवादाश्चैते तत्र द्वितीयं कर्मात्मैव प्रजापतिरात्मानं दुदोह । दोहनं चाध्यापनं परसंक्रान्तिसामान्येन । अथापि पञ्चमी । तत्राप्याग्नेया मन्त्रा आदावृग्वेदे ऽतोऽनेरजायते'त्युच्यते, यजुर्वेदेऽपि “इषेत्वोत्वेति" । इडन्नं तन्मध्यस्थानत्वाद्वायुना वर्षदानेन क्रियते । उर्व प्राणः स वायुरेव । अत आदितो वायुकार्यसंबन्धाद्वायोरित्युपमा । अथवाऽऽध्वर्यवमाविज्यं बहुप्रकाराश्चेष्टाश्च सर्वा वायोरित्यनेन सामान्येन वायोर्जन्म यजुर्वेदस्य । अनधि- १५ कारस्य सामगीत्ययोग्यत्वादुत्तमाध्ययनानि सामान्युत्तमस्थानश्चादित्य इति ॥ २३ ॥ कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा ॥ सरितः सागराञ्छैलान् समानि विषमाणि च ॥ २४ ॥ धर्मसामान्यादाह । द्रव्यात्मा कालो वैशेषिकाणां क्रियारूपोऽन्येषाम् । आदित्यादिगतिप्रतान आवृत्तिमान् । कालविभक्तयो विभागा मासवयनसंवत्सराद्याः । नक्षत्राणि २० कृत्तिकारोहिण्यादीनि । ग्रहा आदित्यादयः । सरितो नद्यः । सागराः समुद्राः । शैलाः पर्वताः । समानि स्थलान्येकरूपा भूभागाः खातप्रदरवर्जिताः । विषमाणि आरोहावरोहवन्ति ॥ २४ ॥ तपो वाचं रतिं चैव कामं च क्रोधमेव च ॥ सृष्टिं ससजे चैवेमा स्रष्टुमिच्छन्निमाः प्रजाः ॥ २५॥ २५ रतिर्मनसः परितोषः । कामोऽभिलाषो मन्मथो वा । अन्यत्प्रसिद्धम् । एवमादिकां सृष्टिं ससर्नेमामत्रश्लोके पूर्वा च या सृष्टिरुक्ता । इमाः प्रजाः स्रष्टुमिच्छन् देवासुरा यक्षराक्षसगन्धर्वाद्यास्तदुपकरणं तदात्मधर्मवच्छरीरं धर्म चादावसृजदित्यर्थः । अथ केयं १-काः शकीरदृष्टा न सन्तीति वक्तुमर्हति । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy