________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[प्रथमः कर्मात्मनां च देवानां सोऽमृजत्माणिनां प्रभुः॥
साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ॥ २२ ॥ कर्मात्मानः शरीरिणः प्राणिनः कर्मसु तत्परा मनुष्या उच्यन्ते । तेषामर्थसिद्धये यज्ञमसृजत् । ये ब्रह्मोपासनास्व ( न ) भिरताः पुत्रपश्वादिफलार्थिनो द्वैतपक्षाश्रितास्ते कर्मानुष्ठानपरत्वात्कर्मात्मान उच्यन्ते । षष्ठ्यपि तादर्थ्य ब्रूत इति तदर्थ यज्ञमसृजदिति गम्यते । देवानां च गणं तदर्थमेवासृजत् । कर्मात्मनां चेत्ययमदेशे चः पठितः । तस्य देशो देवानामित्यतोऽनन्तरं यज्ञं ससर्ज । अग्निरग्नीषोमाविन्द्राग्नी इत्यादि यज्ञसिद्धयर्थ देवानां गणमसृजत् । तथा साध्यानां देवानां गणमित्यनुषज्यते । भेदेनोपादानमहविर्भा
क्त्वात्तेषां स्तुतिभाज एव ते केवलम् । 'यत्र पूर्वे साध्याः सन्ति देवाः' इति । 'साध्या वै १० नाम देवा' इति । 'साध्या वै नाम देवा आसन् ' । अथवा ब्राह्मणपरिव्राजकवत् । सूक्ष्म
मरुतो रुद्राङ्गिरस इत्येतदपेक्षया साध्यगणः सूक्ष्मः । साध्यग्रहणं चान्यासामप्यहविःसंबन्धिनीनां देवतानां वेनोस्तुनीतिरित्यादीनां प्रदर्शनार्थम् । ___ अन्ये तु कर्मात्मनां देवानां प्राणिनामिति समानाधिकरणानि मन्यन्ते । कर्माणि आत्मा
स्वभावप्रतिलम्भो येषां ते कर्मात्मानः । यागादिकर्मनिवर्तनपरत्वात् प्रधानतया वा कर्मा१५ त्मानः । काश्चिद्देवता यागादिकर्मण्येव स्वरूपत इतिहासे श्रूयन्ते। यथेन्द्रो रुद्रो विष्णु
रिति । अन्यासां तु याग एव देवतात्वं न स्वरूपतः । अक्षाग्रावाणो रथाङ्गानि । न हि यथा भारते इन्द्रादीनां वृत्रादिभिरसुरैर्युद्धादि कर्म श्रूयते तथाऽक्षादीनां वर्ण्यते । अस्ति च सूक्ते हविःसंबन्धे तेषामपि देवतात्वम् । अक्षाणां ‘प्रावेपामा ' इति । ग्राव्णां प्रैते
वदन्त्विति' । ' वनस्पते वीडङ्ग' इति रथाङ्गानाम् । अत एव प्राणिनामिति । द्विविधा २० हि देवताः । प्राणवत्यस्तद्रहिताश्च । यथेन्द्रादयः पुरुषविग्रहाः प्राणवन्तः पुराणे वर्ण्यन्ते।
नाक्षादय इतिहासदर्शना । अतश्चायं सर्वः सर्गादिप्रपञ्चः । चशब्दश्चात्र द्रष्टव्यः । प्राणिनामप्राणिनामपि । निरुक्तदर्शनेऽपि द्विविधा देवता । अश्वा 'मानोऽमित्र' इति । शकुनिः 'कनिक्रददिति' । गाव · आगावो अम्मन्नि' ति । एताः प्राणवत्यः अप्राणा
उक्ताः । सनातनग्रहणं यज्ञविशेषणं पूर्वकल्पेऽपि यज्ञस्य भावात्प्रवाहनित्यतया २५ नित्यत्वम् ॥ २२ ॥
अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ॥
दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम् ॥ २३ ॥ तित्र एव देवता अग्निप्रभृतय इति नैरुक्ताः सत्यप्यभिधाननानात्वे । अतस्तेन दर्शनेनोच्यते । एताभ्यस्तिसृभ्यो यज्ञसिद्ध्यर्थ यागसंप्रदानत्वात्तासां चतुर्थी । त्रयमृग्यजुःसाम
फ-दर्शनेनोच्यते।
For Private And Personal Use Only