________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मध्यायः]
मनुस्मृतिः। असंभाष्ये साक्षिभिश्च देशे संभाषते मिथः॥
निरुच्यमानं प्रश्नं च नेच्छेद्यश्चापि निष्पतेत् ॥ ५६ ॥ . . असंभाषणार्हे देशे उपह्वरादौ साक्षिभिः सह संभाषत एकाकी तद्भेदाशङ्कया निरुच्यमानं पृच्छयमानं निरूप्यमाणं वा प्रश्नं विचारवस्तु नेच्छति किंचिद्रार्जकार्यमुद्दिश्य राजपुत्रमान्याद्यनुग्रहेण च काललाभं करोति यश्चापि निष्पतेत् वक्ष्यमाणमेव क्रियापदं स ५ हीयत इति । यदेवोक्तं 'पुनर्यस्त्ववधावतीति' स एवार्थः 'यश्चापि निष्पतेदिति' । पुनर्वचने प्रयोजकमुक्तम् । अमत्यन्तापौनरुक्त्यं मा भूदिति कश्चिद्विशेष आश्रयितव्यः ॥ ५६ ॥
ब्रूहीत्युक्तश्च न ब्रूयादुक्तं च न विभावयेत् ॥
न च पूर्वापरं विद्यात्तस्मादर्थात्स हीयते ॥ ५७ ॥ उक्तार्थ एव श्लोकोऽयं श्लोकान्तरैदृश्यते । पुनर्वचने च प्रयोजनमुक्तम् । “बहुकृत्वोऽपि १० पथ्यं वादितव्यमिति" अक्षरार्थस्त्वार्थना निःशेषिते पूर्वपक्षे प्रतिवादी ब्रह्मास्मिन्वस्तुनीति पृष्टो यदि न ब्रूयात्पुनःपुनः पृच्छ्यमानेऽपि यो हि सम्यगुत्तराभावान्मिथ्योत्तरवादित्वादमुनैव मे पराजयो भवति तूष्णीभूतस्य तु मे संशय एव पराजये इत्यनया बुद्धया नोत्तरं ददाति सोऽपि जीयते । वक्ष्यति चात्र कालावच्छेदम् " न चेत्रिपक्षात्प्रब्रूयादिति" (श्लो.५)। सद्यो ह्याकृष्टस्य पूर्वपक्षार्थानवबोधादुत्तराप्रतिपत्तेर्युक्तं कालहरणम् । अत्र च दिवसैः पञ्चभि. १५ दर्शभिदशभिर्वेषदीषद्वदतास्त्रपक्षसमाप्तिर्न वियन्तं कालं तूष्णीभाव एव यश्चातोऽधिकः कालः संस्थितोऽपि कच्चित्संवत्सरं प्रतीक्षेत प्रतिभावयेदिति न युक्तमादतु यतोऽप्रति भावे प्रतीक्षाकारणम् । सा संवत्सरादुर्ध्व भवतीति किमिय॑कारणम् । न चैष नियमः केनचित्प्रकारेण नावगम्यते प्रतिभानवतः संवत्सरेण प्रतिभा भवतीति तस्मात्तावन्त्येवाहान्युपेक्षा युक्ता यावद्भिः पूर्वपक्षार्थावधारणं भवत्युत्तरं च प्रतिभाति । एतच्चामुकस्य मन्दधियो २० प्येतावन्मात्रैरहोमिर्भवतीति नाधिकं कालमुपेक्षणीयम् । पूर्वपाक्षिकस्य तु तदहरेव स्वार्थवि. निवेशनं युक्तम् । यत इदमेष मे धारयतीदं वाऽनेन ममापकृतमिति निश्चितं तस्य भवति । स्वेच्छया ह्यसौ प्रवर्तते केवलं तस्मै स्वपक्षमावेदयते । किमित्यनिश्चितः स्वार्थो भवति । उत्तरपालिकस्त्वविदितसंबन्धस्तदानीमेव राजपुरुषैरानीयमानः कथमिव स्वपरपक्षौ निश्चिनुयात् । पक्षद्वयनिरूपणं हि तदस्य तदानीमेवापतति । नान्यथोत्तरपाक्षिको भवति । २५ तस्मात्पूर्वपाक्षिकस्य सध्येि वस्तुनि तदहःपूर्वपक्षसमाप्तिद्विदिवसलाभो वा । उभावपि चैतौ पक्षौ स्मृत्यन्तरपरिगृहीतौ । तथा ह्याह
१ण-किंचिद्राजकार्यमुपदादिनाज्यदेशेन ग्रामान्तरं नायापगच्छेत् । · २ य-र-ण-ळ-मेद । ३ य-र-ण-ळ-इव । ४ क्ष-आक्षिप्तस्य; य-र-ण-ळ-अकृष्टस्य । ५-य-र-ल-व-सपठित्तेत्रि। ६-अप्रतिभार्याम् । ७-भवंती। ८-आकारणम् । ९-स्व र्थ प्रतिभासतीति; ! १०-प-ण-भवति। ११-सबलं च । १२-निश्चित । १३-आवेदितसंबंध । ४-शक्ये य-र-ल-व-प्रतिभाबतीनि ।
For Private And Personal Use Only