________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाध्यसमलंकृता।
[अष्टमः
साक्षिन्यतिरिक्तं लेन्यादिकरणमाचष्टे । ततश्च पाठान्तरं " कारणं वा समुद्दिशेदिति"। अस्याप्ययमेवार्यः । अथवाऽयमन्यः पाठः अभियुक्तो दिशेद्देशमिति । अयं वाऽर्थः । यत्राधमर्णो देहीत्युक्तः प्रतिजानीते सत्यमेव धनं प्रतिदत्तं यदसावमियोक्ताऽऽसीत्स एवा
भियुक्तः संवृतः । स चाभियुक्तः संदिशेद्देशं कस्मिन्देशे त्वया मे प्रतिदत्तं कालं च निर्दि६ शेद्देशग्रहणस्य प्रदर्शनार्थत्वात्करणं वा समुद्दिशेत् । अस्ति भा किं तव प्रतिपादने तत्स
मुद्दिशेत्येवं ब्रूयात् । अथवा दिशेद्देश्यं यत्तस्मिन्काले नाह साक्ष्यादि तस्यैव प्रदर्शनं करणं वेति । वाशब्दः चशब्दस्य स्थाने ॥ ५३॥
अदेश्यं यश्च दिशति निर्दिश्यापहृते च यः॥ यश्चाधरोत्तरानान्विगीतानावबुध्यते ॥ ५४ ॥
उक्तमेवाधमणेऽपह्नवाने धनिना राजा ज्ञापयितव्यः । ईदृशी च ज्ञापना कर्तव्या। अस्मिन्देशेऽस्मिन्काल इदं धनमियद्वैतेन मत्सकाशाद्गृहीतम् । स च पृष्टो भावयति । नैतस्मिन् देशेऽहमभवं योऽनेन च ग्रहणकाल उपदिष्टः तदा देशे दीयते । अथवा देशसाक्षिणो व्याख्यातास्तान्साक्षिणो देशकालावसंभवतो निर्दिशति । निर्दिश्य देशादिकमपजानीते · नैतन्मया निर्दिष्टमिति' । यश्चाधरोत्तरानान्पौरस्त्यानौपरिष्टांश्च विगीताविरुद्धानभिहितान्नावबुध्यते । यद्वा पूर्व वक्तव्यं तत्परस्माद्वक्ति यत्परतस्तत्पूर्व क्रमभेदं च वचनगतमात्मनो नानुसंधत्ते हीनः स इति । निर्दिशेदिति सर्वत्र क्रियानुषको भविष्यतीति ॥ १४ ॥
अपदिश्यापदेश्यं च पुनर्यस्त्वपधावति ॥ सम्यक् प्रणिहितं चार्थ पृष्टः सन्नाभिनन्दति ॥ ५५ ॥
पूर्वेणार्धेनोक्तस्यार्थस्य निगमनमुत्तेरणानुक्तोऽर्थ उच्यते । यदुक्तं “ अदेशं यश्च दिशति निर्दिश्यापहृते च यः" इति स एवार्थोपदिशेत्यस्य अदेश एवापदेशः । तमपदिश्य कथयित्वा पुनः पश्चादपधावत्यपसरति नैतौ देशकालौ मम निश्चितौ यावत्सुदेशकालोऽवधारयति तावदयं मह्यमिति पश्चाद्रवीति सोऽपि तस्मादर्थाद्धीयते । सम्यक
प्रणिहितं चार्थमनाकुलं निश्चितमुक्तं यदा पृच्छयते यदाऽनेनोक्तं तत्र किं ब्रवीषि केन २५ वा प्रमाणेन स्वपक्षं साधयसीति पृष्टो न संधत्ते सम्यकप्रणिहितं चार्थमनाकुलं निश्चित
मुक्तं कथान्तरं प्रस्तौति विचारावसानेन किल मे पराजयो भवतीति कालमुपक्षिपामीति तस्यापि पराजय एव । अथवाऽपदेशो व्याजस्तमपदिश्योपन्यस्य योऽपसरत्यधना मे महती पीडा समुत्पन्ना न शक्नोमि प्रतिवक्तुमलीकादिना वा प्रस्थितः सोऽपि जीयते ॥५५॥
१फ-अस्ति तावकंसेदुर्दिशेत्येवं ब्रूयादय न वा। २ य-र-ज--इयच्च तेन; फ-इयवेतनं ३ तदा आदेशं दिशं अनीयते। ४ न मयोद्दिष्टमिति । ५ ण-किचिद्भवीषि । ६ सूत्रपदादिना वा ।
For Private And Personal Use Only