SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। सोऽपि न युक्तः । उक्तं हि " नावसाद्य शनैर्दाप्यः काले काले यथोदयम् । ब्राह्मणस्तु वि. शेषेण धार्मिके सति राननि" इति ॥ तस्मात्किंचनवृद्ध्या संदापनीयः । कुटुम्बादधिकंधनसंभवे सर्व दापनीयः । सर्वासंभवे च ' कर्मणाऽपि समं कुर्यात् ' इत्यन्यस्मिन्व्याख्याने । छलाचारौ राजानमज्ञापयित्वा न कार्यों ॥ ५० ॥ यः स्वयं साधयेदर्थमुत्तमोऽधमणिकात् ॥ न स राज्ञाऽभियोक्तव्यः स्वकं संसाधयन्धनम् ॥ ५१ ॥ उक्तस्यैवार्थस्य स्पष्टीकरणार्थः श्लोकः । न छलादिनोपायेन स्वेच्छयोत्तमोऽधमद्धनं संसाधयन् राज्ञा किंचिद्वक्तव्यः । मामविज्ञाप्य किमित्यस्मादाभरणादि स्वधनसंशुध्यर्थे व्याजेन छद्मना गृहीत्वा किं नास्मै प्रतिप्रयच्छसीति ॥ ५१ ॥ अर्थेऽपव्ययमानं तु करणेन विभावितम् ।। दापयेद्धनिकस्यार्थ दण्डलेशं च शक्तितः ।। ५२ ॥ सत्यपि विभावके प्रमाणे यो न स्वयं प्रतिपद्यते न तस्य छलाद्युपायप्रयोगः कर्तव्यः । किंतर्हि राजैव तेन ज्ञापयितव्यस्तत्र राज्ञाऽऽकारितेऽर्थे ऋणेऽपव्ययमानमपहृवानं नास्मै किंचन धारयामीति वदन्तं कारणेन साक्षिलेख्यभुक्त्यात्मकेन विभावितं धारयामीति प्रतिपादितं दापयेदुत्तमाय धनदण्डलेशं च स्पल्पं दण्डं दण्डमात्रमित्यर्थः । १५ अन्यत्र दशमं दण्डभागं वक्ष्यति । यस्तु तावद्दातुमशक्तः सोऽल्पमपि दशमाद्भागाद्दण्डं दापयितव्यः । अथवा यः प्रमादात्कथंचिद्विस्मृत्यापजानीते तस्यायं यथाशक्ति दशमभागास्पतो दण्डः । कारणं प्रमाणं त्रिविधं । तदन्यैरिह संभवतीति परिगणितम् । तथा चाहुः “यत्र न स्यात्कृतं पत्रं साक्षी चैव न विद्यते । न चोपलंभः पूर्वोक्तो दैवी तत्र क्रिया भवेत्॥" इति ॥ १२॥ अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि ॥ अभियोक्ता दिशेद्देशं करणं वाऽन्यदुद्दिशेत् ॥ ५३ ॥ यदा राज्ञा प्राडिवाकेन वा संसदि व्यवहाराधिकरणादिदेश उत्तमर्णाय धनमिति उक्तस्यापह्नवोऽपलापः अपलापोऽधर्मेण भवति तदाऽभियुक्तो धनस्य प्रयोक्तोत्तमर्णाय दिशेद्देशं साक्षिणं प्रमाणभूतं निर्दिशेत् । अन्यद्वा करणं लेख्यादि । देशशब्देन लक्षणया २५ धनप्रयोगप्रदेशवर्तिनां साक्षिणामुपादानात् । करणशब्दः सामान्यशब्दोऽपि गोबलीवदेव १ क-ख-ड-क्ष-धर्मके । २ ण-कंचनवृद्धशं दापनीयः । ३ ख-ड-क्ष-फ-कुटुंबादधिकं धनं संरुचः सर्वे दापनीयः। यत्र तत्स्यात्कृतं यत्र करणं च न विद्यते। न चोपलम्भः पूर्वोक्तस्तत्र देवी किया भवेत् ॥१॥ ४ य-र-ण-ल-शपथात्मकेन । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy