SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १८२ www.kobatirth.org १५ मेधातिथिभाष्यसमलंकृता । येयैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः ॥ तैस्तैरुपायैः संगृह्य दापयेदधमर्णिकम् ॥ ४९ ॥ नेहाप्राप्तार्थादुत्तमर्णाद्राज्ञे भागं वक्ष्यत्यधमर्णाद्दण्डं तत्र स्वभागतृष्णया राजान उपायान्तरेण धनमार्गणं धनिकानां कारयेयुरतस्तन्निवृत्यर्थमिदमुच्यते । यैर्यैर्वक्ष्यमाणै१ रुपायैः स्वधनं पूर्वप्रयुक्तमुत्तमर्णो लभेत तैस्तैरधमर्ण दापयेत् । संगृह्य स्थिरीकृत्य । अनेनैवोपायेनैतस्मादेतल्लभ्यत इत्येतन्निश्चित्येत्यर्थः । अथवाऽनुकूलमुपसांत्वनं ग्रहः । उत्तमर्ण एव उत्तमर्णिकः । उत्तमं च तदृणं चोत्तमर्ण । तदस्यास्तीत्युत्तमर्णिकः । " अत इनि ठनाविति”(व्या. सु. ५।२।१२) रूपं । एवमितरावपि सर्वधनादिषु प्रक्षेप्तव्यावन्यत्र वीरपुरुषको ग्राम इतिवद्बहुव्रीहिणैव सामानाधिकरण्यस्य मत्वर्थे चोक्तार्थाविशेषेण समासः । मत्वर्थीयश्व १० दुर्लभः । वृद्धिलाभार्थं प्रयोगविषयं धनमृणम् । द्वौ च तस्य संबन्धिनौ प्रयोक्ता ग्रहीता च । प्रयोजकस्य च तदुत्तमं भवति । स्वतन्त्रो धनदाने प्रत्यादाने च । इतरस्य सोपचयदानाद्बह्वायामत्वाच्चाधमत्वं। व्युत्पत्तिमात्रं त्वेतत् । रूढचैव त्वेतौ प्रयोक्तृग्रहीत्रोर्वाचकौ । के पुनस्तत्रोपया इत्येतत्प्रदर्शनार्थ उत्तरश्लोकः ॥ ४९ ॥ 1 1 धर्मेण व्यवहारेण छलेनाचरितेन च ॥ प्रयुक्तं साधयेदर्थ पञ्चमेन बलेन च ॥ ५० ॥ Acharya Shri Kailassagarsuri Gyanmandir [ अष्टमः For Private And Personal Use Only तत्र धर्मस्कन्धकरीत्या स्तोकं स्तोकं ग्रहणमिदमद्य इदं श्व इदं परश्वः यथा कुटुंबसंवाहोऽस्यैवं वयमपि तव कुटुंबभूताः संविभागयोग्या इत्यादि पठितप्रयोगो धर्मः । यस्तु निःश्वसव्यवहारेण दापयितव्यः । अन्यत्र कर्णोदकवद्धनं दत्वा कृषिवाणिज्यादिना व्यवहारयितव्यम् । तत्रोत्पन्नं धनं तस्मागृहीतव्यम् । यस्तु व्यवहारो राजनिवेद्यस्तस्य २० सर्वोपायपरिक्षये योज्यत्वाद्वालग्रहणेन च गृहीतत्वात् । यस्तु साक्षान्न ददाति विद्यमानधनोऽपि स छलेन दापयितव्यः । केनचिदपदेशेन विवाहोत्सवादिना कटकाद्याभरणं गृहीत्वा न दातव्यम् । यावदनेन तद्धनं न दत्तम् । आचरितमभोजनगृहद्वा रोपवेशनादि । बलं राजाधिकरणोपस्थानम् । तत्र राजा साम्नाऽप्रयच्छंतं निगृह्य च प्रपीड्य दापयतीति । स्वगृह संबंधिधनादि बलं यतः " प्रकृतीनां बलं राजा " इति पठ्यते अस्मिन्नेव प्रसङ्गे १५ उशनसा । अन्ये तु राज्ञ एवायमुपदेश इति वर्णयन्ति । राजधर्मप्रकरणात् । राजा ज्ञापित उपायैरेनं दापयेत्पराजितं स्वयं प्रतिपन्नं च । न तु सहसाऽवष्टभ्य सर्वस्वं धनिने प्रतिषादनीयः । यत उभयानुग्रहो राज्ञा कर्तव्यः । सर्वस्वादाने चाधर्मणस्य कुटुंबात्सादः स्या १ ख-ड-क्ष- राजानं उपा; क- राजानमुपा । २ ण धनं ।
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy