________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
मेधातिथिमाष्यसमलंकृता।
[अष्टमः
अथवा यदि कश्चिद्र्यात्साक्षिभिरर्थ एतस्माद्गृहीतोऽन्येन वा सत्येन तत्र निरूपयितव्यं यदेतन्यवहारपदं यदि स्वल्पं न संभवति धनग्रहणं । अथ गुरुसम्याः साक्षिणश्च दैन्यं गतास्तदा संभावनीयं प्रमाणान्तराञ्च निश्चेतव्यम् । एतच्चात्मानं साक्षिणं कृत्वा गवेषणीयम् । एतदुक्तं भवति । कण्टकशोधनन्यायेन चारैश्चारयेत् । अथवाऽत्मानं संपश्येदात्मनोऽवस्थां संपश्येत्कोशक्षयं महाकोशतां वा । अस्मिन् पक्षे साक्षिण इति स्वतंत्रं पदम् । देशस्य दर्शनम् । क्वचिदल्पोऽप्यर्थो महत्वमासादयति । महानपि योऽन्यत्र सत्कविर्लघु भवतीति । एतद्देशस्य दर्शनम् । एवं कालोऽपि द्रष्टव्यः। रूपं व्यवहारवस्तुस्वभावः । तस्य गुरुलघुतां पश्येदिति ।
अन्यैस्तु व्याख्यातम् । सत्यार्थयोः सारफलतां पश्येदात्मानं साक्षिणं कृत्वा । १० एतदुक्तं भवति अर्थात्सत्यं गुरुत्वेन महाप्रयोजनत्वादुभयोर्लोकसाधनरूपतयाऽऽश्रयितरम् ।
अर्थस्त्यक्तव्योऽसारत्वात् । देशः स्वर्गादिः सत्यसमाश्रयप्राप्यः। कालश्चिरं तत्र वासः। रूपं सुरूपं सुंदरं मनोहरम् । एतदेव विपरीतम् । सत्यत्यागेन केवलार्थसमाश्रयणात् ॥ ४६ ॥
सद्भिराचरितं यत्स्याद्धार्मिकैश्च द्विजातिभिः ।
तद्देशकुलजातीनामविरुद्धं प्रकल्पयेत् ॥ ४७॥
सन्तः प्रतिषिद्धवर्जकाः धार्मिका विहितानुष्ठायिनः । यद्यप्येक एव शब्द उभयमर्थ प्रतिपादयितुं शक्नोति तथापि भेदापादानाद्विषयविभागेनैवं व्याख्यायते । तैर्यदाचरितमनुपलभ्यमानश्रुतिस्मृतिवाक्यं तद्देशकुलजातीनां प्रकल्पयेदनुष्ठापयेत् । अविरुद्धं श्रुतिस्मृतिमिरुपलभ्यमानाभिः । यदुक्तं “जातिजानपदान्धर्मान् " (४२) इत्यत्र
श्लोके देशकुलाद्याचारस्य प्रामाण्यं तस्यानेन विशेषः कथ्यते। आम्नायेनाविरोधेन तत्प्रमाणं २० न विरोधे तत्प्रमाणं । तेन दृष्टार्थान्यपि ग्रामदेशराजकार्याणि शास्त्राविरुद्धान्यादरणी
यानि । न विरुद्धानि । यथा क्वचिद्देश ऋणिक आत्मानं विक्रय्य धनं दाप्यते । तच्च " कर्मणाऽपि समम्' इत्यनेन विरुद्धं । अन्यच्च श्लोकेन दर्शितम् अन्यस्य त्वाचारस्य शिष्टसंबन्धितयैव प्रामाण्यमुक्तम् “ आचारश्चैव साधूनां” इति । न च तद्विरुद्धार्थसमाचरणेन साधुत्वमुपपद्यते । तस्माच्च नादृष्टाय तद्विषयोऽयमुपदेशः।
अन्यस्त्वाह । देशान्तरे धार्मिकैः सद्भिर्द्विजैर्यदि विरुद्धं श्रुत्या स्मृत्यन्तरेण वा ऽचर्यते तद्देशान्तरेऽपि राजा प्रकल्पयेत् । यथोद्वृषभयज्ञादय उदीच्येषु प्रसिद्धास्ते प्राच्यैर्दाक्षिणात्यैः प्रतीच्यैश्वानुष्ठयाः । कुतः । आचाराद्धि स्मृतिरनुमातव्या । स्मृतेः
श्रुतिः। सा च यद्येवमनुमीयत उदीच्यैरेतत्कर्तव्यमिति तत्र तद्धितस्य बहुप्वर्थेषु - १ य-र-ण-ळ-वचिल्लघुर्भवति क्वचिगुरुः एतद्देशस्य दर्शनम् । २ य-र-व-ळ-विरुद्धार्थपरिचरणे ।
१५
For Private And Personal Use Only