________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
- ममाग्रतो नाकर्षास एतेन वा तावदपराद्धं यावदहमेनं निपातयामीत्येवं राज्ञा न कर्तव्यम् । सत्यपि द्वेषे धनलोभे वा । न च प्रापितमावेदितमन्येनार्थिना ग्रसेत निगिरेन्नापेक्षेतेति यावत् । अवधीरणायां निगिरेदिति प्रयुज्यते । तत्समानार्थश्च ग्रसतिः । तथा च वक्तारो भवन्ति यावत्किंचिदस्योच्यते तत्सर्वं निगिरति न किंचिदयं प्रतिवक्ति ।
५७९
अन्ये तूत्तरं श्लोकार्द्धमेवं व्याचक्षते । न च प्रापितं व्यवहारादन्येन प्रकारेणार्थं धनं ग्रसेत स्वीकुर्यात् । यदि हि राजा छललेशोद्देशिकया धनदण्डे प्रवर्तेत ततः परलोके दोषो दृष्टव्यः । राज्ये चोपघातः स्यात् ।
अथेदमपरं केषांचिद्व्याख्यानं । नोत्पादयेत्स्वयं कार्य राजा साक्षादुपलभ्यास्य कार्यकारिणं न स्वयं किंचिद्रूयात् तस्य पराधीनेन यावद्यवहारेण नाकृष्टः । येन व्यवहारदर्शनमेव पराजितस्य निग्रहाय भवति । न राजा । एतच्च करणदानादिष्वेव १० द्रष्टव्यम् । ये तु स्तेनसाहसिकादयः कण्टकस्थानीयास्तात्राजा स्वयमेवावगम्य गृह्णीयात् । शेषं समानम् । नाप्यस्य पुरुष इति अस्य राज्ञः पुरुषोऽधिकारी मनुष्यः ॥ ४४ ॥ यथा नयत्यसृकूपातैर्मृगस्य मृगयुः पदम् ॥ नयेत्तथाऽनुमानेन धर्मस्य नृपतिः पदम् ॥ ४५ ॥
यदुक्तं न स्त्रयं दृष्ट्वाऽपि राजा सहसा कंचिदाक्रमेत वा निगृह्णीयाद्यतः नर्मणा - १९ `ध्येतत्संभवति । कथं पुनरेतदेव गन्तव्यम् । किं परिहासकृतमेतदुत क्रोधाद्यनुत्रन्धकृतमिति । यत आह अनुमानेनैतज्ज्ञातव्यम् । यथा मृगयुर्मृगव्याधो विध्ध्वा मृगं नष्टं दृष्टिपथादपक्रान्तं छिद्रनिसृतैरसृक्पातैः स्रवद्भिः शोणितैः पदं मृगस्य नयत्यासादयत्येवं राजाऽनुनानेन परोक्षे प्रत्यक्षे वाऽर्थकारणं निश्चिनुयात् । धर्मश्च कृतव्यवहारविषयस्तत्वावगमः । उक्तस्याप्यनुमानस्य पुनर्वचनं स्मृतिदायर्थम् ॥ ४५ ॥ सत्यमर्थं च संपश्येदात्मानमथ साक्षिणम् ॥
देशं रूपं च कालं च व्यवहारविधौ स्थितः ॥ ४६ ॥ व्यवहारविधौ व्यवहारकर्मणि स्थितः प्रवृत्तो न केवलं व्यवहाराक्षराणि संपश्येद्यावदेतदपरं सत्यादि । तत्र सत्यस्य दशनं यद्यप्यर्थिप्रत्यर्थिनोरन्यतरेण शालीनतया परिपूणाक्षरं नाभिहितं तथापि यदि राजा प्रमाणान्तरतः पूर्वोक्ताद्वाऽनुमानादेव २५ कथंचिदीदृशोऽयमर्थ इति निश्चतुं पारयेत् तदा तदाश्रयेन्नोपेक्षेत । अनेनैतन्न सर्वमुक्तमिति । तदुक्तम् ( या० व्य० १९ ) " छलं निरस्य भूतेषु व्यवहारान्नयेन्नृप इति " अर्थस्य दर्शनपर्थशब्दो धनवचनः प्रयोजनवचनो वा । तत्र यदि महान्तमर्थमासादयेत्तदा त्यत्तगऽप्यन्यानि राजकार्याणि नोद्विजे । व्यवहारेक्षणं कुर्यादेव ।
For Private And Personal Use Only
२०
१ ख- ड - स्वराज्य । २ य-र-ण ल-तत्रोपघातः 1 ३ य-र-ण-ळ-विद्याख्यान ४ य-र-ण-ळ-भाक्रोशं तानुपात्रं वा निगृहीयात् । ५ य-र-ण-ळ-नोद्विजितव्यम् ।