________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८
मेधातिथिमाष्यसमलंकृता ।
[ अष्टमः
मातृविवाहादिः सार्वभौमेन निवारणीयः । स्वदेशाचारवतां तेषां जातिधर्मों जननिवासबन्धेनाभ्यनुज्ञानादाम्नाये विरोधोऽप्यत्र नास्ति आधिकृतानां विरोधात् विरोधो न तिरश्वाम् । ____ननु " आहंसा सत्यमक्रोधः शौचमिंद्रियसंयमः” इति प्रतिलोमाधिकारेणैवोक्तं । म्लेछाश्चा प्रतिलोमा एव तत्र यदि मातृविवाहे मूत्रोत्सर्गे चोदकशुद्धयभावेन दुष्यति क इन्द्रियसंयमः कीदृशं वा शौचमिति । उक्तमेतत् । आर्यावतिनामते धर्माः शौचादयः चातुर्वण्ये तु तद्देशनियमो धर्माणा नास्ति केचिददृष्टार्था देशधर्मा इति वक्ष्यामः । एककार्यापन्ना वणिक्कुरुकुसीदचातुर्विद्यादयः । तेषां धर्माः श्रेणीधर्माः । यथा केचनवाणङ्गहत्तरा वचनेन परिच्छिन्नं राज्ञो भागं प्रयच्छन्तीमां वणिज्यां वयमुपजीवाम एष ते राजभागो
ऽस्माकं यावल्लाभोऽस्तु न्यूनोऽधिको वा । तत्र राज्ञाऽभ्युपगते वणिज्ये लाभातिशयार्थ राष्ट्र१० विरोधिनी चेतरेतरव्यवस्थां कुर्वन्ति इदं न्द्रयमियन्तं कालमाविक्रेयमयं राज्ञोपदेशेनार्थो दण्डः पतति देवतोत्सवार्थो वा तत्र यदि कश्चिद्वयतिकामति स एवं श्रेणीधर्मव्यतिक्रामन्दण्ड्यः ।
कुलधर्मा इति । कुलं वंशः । तत्र प्रख्यातमहिम्ना पूर्वनेन धर्मः प्रवर्तितो भवति योऽस्मद्वंशनः कुतश्चन धनं लभेत स नादत्वा ब्राह्मणेभ्योऽन्यत्र विनियुञ्जीतेत्यादयो धर्माः।
तथा सति योग्यत्वे य एव पूर्वपुरुषाणां यानकः कन्यादिसंप्रदानभतो वा स एव कार्यात्तदति१५ कामन् राज्ञोऽनुष्ठापयितव्यः । एतेषां च सामवायिकत्वादधर्मत्वशङ्कया पुनर्वचनम् । न चायं संविद्वयतिक्रम इति वक्ष्यामः ॥ ४२ ॥
स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः ॥ पिया भवन्ति लोकस्य स्वे स्वे कर्मण्यवस्थिताः ॥ ४३ ॥
पूर्वोक्तस्य जानपदादेर्धर्मस्य दृष्टादृष्टताऽनेन प्रदर्श्यते । स्वानि कर्माणि कुल२० स्थित्यनरूपाणि ये कुर्वन्ति ते दूरस्था अपि प्रिया भवन्ति । सर्वस्यान्यो निकटवर्ती
संसर्गातिशयात्प्रियो भवति । स्वकर्मकारी तु दूरस्थ एव प्रियः । स्वे स्खे कर्मण्यवस्थिता इत्यनेन परकर्माननुष्ठानमाह । ये न परकर्माणि कुर्वन्ति ते सर्वस्य प्रिया भवन्तीति श्लोकार्थः ॥ ४३ ॥
नोत्पादयेत्स्वयं कार्य राजा नाप्यस्य पूरुषः॥ न च प्रापितमन्येन ग्रसेतार्थ कथंचन ॥ ४४ ॥
कार्य विवादवस्तु । तद्राजा स्वयं न प्रवर्तयेत् । कस्यचिद्वेष्यस्योपघातार्थ धनिनो • वा धनग्रहणार्थं न तदीयमृणिकमन्यं वापराद्धमुद्रेजयेत् । एष ते धारयति किमिति
१ अ. १० श्लो. ६३। २ फ-ख-क्ष-ड-आर्यवर्त मध्यवर्तिनम् । ३ धाद्धलाभे। ४ फ-राज्ञे। ५ य-र-वाणिज्यमू । ६ य-र-राजाविरोधिना शब्दाविरोधिना च । ७ य-र व्यपकुर्वन्ति । ८ य-र अयं का राजोपायनाओं बन्धः । ९ य-र-ण-ल-अतिशयेन परकर्मण्येवास्थिताः । १० य-र-ण-ल-परकर्मण्येबानुष्ठानमाह। ११ फ-ख-ड-च।
For Private And Personal Use Only