________________
Shri Mahavir Jain Aradhana Kendra
१७६
www.kobatirth.org
मेधातिथिभाष्यसमलंकृता ।
[ अष्टमः
यदा विद्वान्ब्राह्मणः पूर्वैः पित्रादिभिरुपहितं निधिं यदा पश्येत्तदा सर्वमेवाददीत । न राज्ञे पूर्वोक्तं भागं दद्यात् । अस्यार्थवादः सर्वस्याधिपतिर्हि सः । तथा चोक्तं सर्वस्वं ब्राह्मणस्येदमिति । एतच्चाशेषतो ग्रहणं यो ब्राह्मणस्वामिक एव निधिः । यस्त्वविज्ञातस्वामिकः तस्मिन्विज्ञेयः ब्राह्मणदृष्टोऽप्यस्त्येव राज्ञो भागः । यतो वक्ष्यति "निधीनां तु पुराणानाम्" इति ॥ ३८ ॥
५
१०
Acharya Shri Kailassagarsuri Gyanmandir
यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ ॥ तस्माद्विजेभ्यो दत्वाऽर्धमर्ध कोशे प्रवेशयेत् ॥ ३९ ॥
यो राज्ञा स्वयं निधिरधिगतस्तस्मान्निधेरयं ब्राह्मणेभ्यो दाननियमो राज्ञः । कोश शब्देन वित्तसंचयस्थानमुच्यते । पुराणं निहितं क्षिताविति निधिरूपानुवादः ॥ ३९ ॥
निधीनां तु पुराणानां धातूनामेव च क्षितौ ॥
अर्धभाग्रक्षणाद्राजा भूमेरधिपतिर्हि सः ॥ ४० ॥
अन्येनापि दृष्टस्य निधे राज्ञा भागः पूर्वोक्तो ग्रहीतव्य इत्यस्य विधेरर्थवादो ऽयं निधीनां हि पुराणानामिति धातूनामेव च क्षितावयं त्वप्राप्तविधिः । सुवर्णरूप्यादि बीजं । मृदः सिन्दूरकालाञ्जनाद्याश्च धातवः । सुवर्णाद्याकर भूमीर्यः खनति यो वा पर्वतादिषु १५ गैरिकादि धातूनुपजीवति तेनापि पूर्ववद्राज्ञे भागो दातव्यः । अर्धभागिति अर्धशब्दों - शमात्रवचनः समासनिर्देशात् । यथा ग्रामार्धो नगरार्धमिति । नपुंसकलिङ्गस्तु समप्रविभागः । इह तु समासे लिङ्गविशेषप्रतिपत्त्यभावात्पूर्वस्य चशब्दवशात् षड्दशद्वादशादेर्भागस्य प्रकृतत्वात्तद्वचनो विज्ञायते । अर्ध भजत एकदेशं गृह्णातीत्यर्थः । अत्र हेतू रक्षणादिति । यद्यपि क्षितौ निहितस्य केनचिदज्ञानान्न राजकीयरक्षोपयुज्यते तथापि तस्य बलवता - २० पहारः संभाव्यते अतोऽस्त्येव रक्षाया अर्थवत्त्वम् । एतदर्थमेवाह । भूमेरधिपतिर्हि सः । प्रभुरसौ भूमेस्तदीयायाश्च भुवो यल्लब्धं तत्र युक्तं तस्य भागदानम् ॥ ४० ॥
दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हतं धनम् ॥
राजा तदुपयुञ्जानौरस्याप्नोति किल्बिषम् ॥ ४१ ॥
चौरैर्यन्नीतं किञ्चिद्धनं तद्राजा प्रत्याहृत्य नात्मन्युपयुञ्जति । किंतर्हि य एव २५ मुषितास्तेभ्य एवं प्रतिपादयितव्यम् । सर्वग्रहणेन च चण्डालेभ्योऽपि देयमिति ।
१ फ-खक्ष-ड-प्रापुयात् । २ प्रथमाध्याये १०० श्लोके । ३ अग्रे ३९ श्लोके । ४ ख-क्ष-ड-फै अन्यैरपि । ५ य-र - समलिङ्गम् ।
For Private And Personal Use Only