SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः मनुस्मृतिः । अथवा रक्षाक्लेशक्षयापेक्षो भागविकल्पः । सतां धर्ममनुस्मरन् शिष्टानामेष समाचार इति नानानः ॥ ३४ ॥ प्रनष्टाधिगतं द्रव्यं तिष्ठेयुक्तैरधिष्ठितम् । यास्तत्र चौरान गृह्णीयात्तान् राजेभेन घातयेत् ॥ ३५ ॥ प्रनष्टमधिगतं प्रनष्टाधिगतं पूर्व प्रनष्टं पश्चादधिगतमधिष्ठितं युक्तैस्तत्परैरा ५ रक्षपुरुषैस्तिष्ठेत् । तथास्थितमपि यदि केचन चोरा गृह्णीयुस्तान राजा इभेन हस्तिना घातयेत् । हस्तिग्रहणं तर्हि दृष्टार्थम् ॥ ३५ ॥ ममायमिति यो ब्रुयानिधि सत्येन मानवः ॥ तस्याददीत षड्भागं राजा द्वादशमेव वा ॥ ३६ ॥ निखातायां भूमौ गुप्तं स्थापितं धनं निधिरुच्यते। वर्षशतिका वर्षसहस्रिकाश्च निधयो १० भवन्ति। तत्र यदि भूमेविदार्यमाणायः कथंचित्केनचिन्निधिरासाद्यते स तु राजधनम् । तथा च गौतमः 'निध्यधिगमो रानधनम्' (अ.१० सू. ४३.) इति। एतच्चास्मर्यमाणनिधातृके निधौ द्रष्टव्यम् । तस्याऽख्याता षष्ठं लभेतेत्युक्तम् । अयं तु श्लोको यत्राख्यातैव निधाता तत्पुरुषो या पितृपितामहादिस्तद्विषयो द्रष्टव्यः । ममायं निधिरिति यो यात्सत्येन प्रमाणेन ज्ञापयेदित्यर्थः । तस्याददीत षड्भागमिति निश्चिते तत्स्वामिकत्वे राज्ञः षष्ठादिभागग्रह- १५ गम् । विकल्पश्चाऽऽख्यातृगुणापेक्षया ॥ ३६ ।। अनृतं तु वदन्दण्ड्यः स्ववित्तस्यशिमष्टमम् ॥ तस्यैव वा निधानस्य संख्ययाल्पीयसी कलाम् ॥ ३७॥ यस्तु मयोऽयं निहितो मत्पूर्वनेन चेति प्रतिज्ञा न साधयति सोऽन्येवादी दण्ड्यः । यावत्तस्य वित्तमस्ति ततोऽष्टमं भागं तस्यैव वा निधानस्याल्पीयसी कलां मात्रां भागमित्यर्थः । २० न तु तदेव द्रव्यं सुवर्णादिकं दापयेत्किन्तु तत्परिमाणमन्यद्वा सममूल्यं यया धनमात्रया दण्डितोऽवसादं गच्छेद्विनयं वा ग्राह्येत । अनुबन्धादिविशेषापेक्षया पुरुषगुणापेक्षया च विकल्प आश्रयणीयः । आतिश यनिकात्पूर्वदण्डात्स्वल्पो दण्ड इति ज्ञापयति । तेन यस्य बहु वित्तं स्वल्पो निधिस्तत्र निध्यपेक्षां मात्रामष्टमां अर्वाचीनां दण्ड्यः । सा ह्यल्पीयसी भवति ॥ ३७ ॥ विद्वांस्तु ब्राह्मणो दृष्टी पूर्वोपनिहितनिधिम् ॥ अशेषतोऽप्याददीत सर्वस्याधिपतिर्हि सः ॥ ८३ ॥ १फ. क्ष-एव । • य-र-जानाय । ३ ख-ड-क्ष-फ-अदृष्टार्थे । । य-र-तत्र । ५ य-रममायं ममपूर्वजैरिति असत्यवादी । ६ फ-ख-फ-क्ष-अभिधानस्य । ७ फ-क्ष-ख-न विष्यपेक्षा मात्रामस्याऽर्थादीनां दण्द्य, । ८ ख-दृष्टा, य-र-द्रष्टा । ब्राह्मणस्तु निधिं लब्धा क्षिप्रं राज्ञे निवेदयेत् । तन दत्तं तु भुजीत स्तेनः स्यादनिवेदन ॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy