SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । तथा चेदमाह । अनुमानेनापि सत्यानृतवादिता व्यवहारतः साक्षिणां च निश्चेतन्या इति श्लोकार्थः । अतश्च स्वरादिग्रहणं प्रदर्शनार्थम् । तेन यन्निश्चितलिङ्गे तेन परिछिन्द्यादित्युक्तं भवति न पुनः स्वरादिभिरेव सव्यभिचारित्वात्तेषाम् । अनुचितसभाप्रवेशा हि महाप्रकृतिदर्शनेन सत्यकारिणोऽपि स्वभावतो विक्रियन्ते । प्रगल्भास्तु संवृताकारा भवन्ति । स्वरश्च वर्णश्चेङ्गितं च स्वरवर्णेङ्गितानि तेषामाकाराः स्वरवर्णेङ्गिताकाराः । आकारो विकारः । स्वाभाविकानां हि स्वरादीनामन्यथात्वं तैर्विभावयेन्निश्चिनुयात् । भावमभिप्रायमन्तर्गतं मनुष्याणां विवादिसाक्ष्यादीनाम् । तत्र स्वरस्य विकारो वाचि गद्गदरुदितादि वर्णस्य गात्ररूपविपर्ययादि इङ्गितं स्वेदवेपथुरोमाञ्चादि । चक्षुषा संभ्रमक्रोधदृष्टिपातेन । चेष्टितेन हस्तनिक्षेपभ्रूविक्षेपादि त्वसंवेद्यं चैतत् । यद्भूह्यमानमप्यभिप्रायं स्वरादयः प्रकाशयन्ति निपुणतो लक्ष्यमाणाः । यतः प्रसिद्धमेतेषां गूढाभिप्रायप्रकटनसामर्थ्यम् ।। २५॥ आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ।। नेत्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ २३ ॥ ५७१ तथा हि लोके दृष्टशक्तितोऽनेन श्लोकेन स्वरादीनां पूर्वोक्तार्थाधिगमेन दर्शयतीत्यपौनरुक्तचम् । तत्राक्रियन्ते विक्रयन्त इत्याकारा इङ्गितादयः । इङ्गितं व्याख्यातं व्यक्तिभेदाद्बहुवचनम् । गतिः पूर्वश्लोकादत्राधिका सा प्रस्खलन्ती स्वभावतोऽन्यथाभूता । १६ भाषितं पौर्वापर्यविरुद्धं वचनं । वक्त्रविकार आस्यविशेषादिः । शेषं पूर्वश्लोक एव व्याख्यातम् । एतैर्विकृतैरन्तर्गतं चित्तं लौकिकैरन्यत्रापि गृह्यत इति समासार्थः ॥ २६ ॥ बालदायादिकं रिक्थं तावद्राजानुपालयेत् ॥ यावत्स स्यात्समावृतो यावद्वाऽतीतशैशवः ॥ २७ ॥ ननु च व्यवहारदर्शनं वक्तव्यतया प्रस्तुतम् । तत्र कः प्रसङ्गो बालघनरक्षायाः । २० उच्यते । विवादपदतामेवैतद्विषयान्निवर्तयितुमिदमारभ्यते । बालधनं राज्ञा स्वधनवत्परिपालनीयम् । अन्यथा पितृव्यादिवान्धवा मैयेदं रक्षणीयं मयेदमिति विवदेरन् । न चान्यः प्रसङ्गोऽस्ति । आशङ्कयमानव्यवहारवच्च । न केवलेषु राजधर्मेषूपदिश्यते अतोऽस्मेिंनेवावसरे वक्तव्यम् | बालो दायादोऽस्य तदिदं बालदायादिकम् । दायादः स्वाम्यत्रो - च्यते । बालस्वामिकं धनं तावद्राजा रक्षेद्यावदसौ समावृत्तो गुरुकुलात्प्रत्यागतो २५. यावद्वाऽतीतशैशवः आ समावर्तनात्प्रतिपाल्यधनः स्यात् । अथवा द्विजातीनां समावर्तनमवधिरन्येषां शैशवात्ययः ॥ २७ ॥ I For Private And Personal Use Only १ फ-क्ष-ख-ड-तेन निश्चितलिङ्गेनैव । २ फ-क्ष-ख-ड- यावचातीतशैशवः । ३ य-ममेदं । - ममेदमिति रक्षितप्त (स्त ? ) द्विषयोव्यं ममदमिति विवदेरन् । ४ फ-क्ष-ख-ड-व्यवहारत्वाच ! ५ फ-क्ष-ख-ड-अन्यस्मिन्नेवावरे । ६ य-र-दायपजं स्वामी पुत्र उच्यते । ७य-र-शैशव आसमा शैशव
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy