________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५७.
मेधातिथिभाष्यसमलंकृता ।
[ सप्तमः
राष्ट्रनाशे च राष्ट्रपतेर्नाश इत्युक्तं भवति नास्तिकाक्रान्तमिति दृष्टान्तः । यथा नास्तिकैः परलोकापवादिभिर्ले कायतिकाद्यैराक्रान्तमधिष्ठितमतश्चाद्विजं न हि नास्तिकानां ब्राह्मणादिभेदो यथार्थः संकीर्णत्वात् तदुक्तं वैद्यवणिग्व्यपदेशादिवद्ब्राह्मणादयः । यत्र वा धर्मसंकटे तु न द्विजाः प्रमाणीक्रियन्ते तदद्विजम् ॥ २२ ॥ धर्मासनमधिष्ठाय संवीताङ्गः समाहितः ॥
प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत् || २३ ||
धर्मः प्रधानः यस्मिन्नौसने भवति तद्धर्मासनम् । राजासने हि राज्य स्थित्यानुगुण्ये - नार्थमेव प्रधानीकरोति न्यक्कृत्यापि धर्मम् । व्यवहारनिर्णये तु धर्ममेव प्रधानं श्रयेत् इत्यर्थो न पुनराश्रयभेदोऽनेन ज्ञाप्यते । संवीताङ्गः वस्त्रादिना स्थगितशरीरः । प्रणम्य १० लोकपालेभ्य इन्द्राद्यष्टौ लोकपालास्तान्नमस्कृत्य कार्यदर्शनमारभेतेत्यदृष्टार्थमेतहूयं अङ्गसंवरणं लोकपालप्रणामश्च । समाहितः अनन्यचित्तः कार्यदर्शने । एवं हि दृष्टार्थी भवति । प्रणमविशेषणं वा । समाहितग्रहणं यद्यप्यत्र किंचिदुक्तमेव प्रतिभाति तथापि पद्यग्रन्थत्वान्नातीव पौर्नरुक्त्यम् । लोकपालेभ्य इति चतुर्थी संप्रदाने कथं ? । क्रियाग्रहणं संप्रदानसूत्रे चोदितं ' श्राद्धाय निगृह्णते ' ' पत्ये शेत ' इत्याद्यर्थं न च क्रियाग्रहणं १५ गृह्णात्यादिविषयमेव भाष्येऽनुक्तत्वात् ॥ २३ ॥
1
अर्थानर्थावुभौ बुध्वा धर्माधर्मौ च केवलौ ।। वर्णक्रमेण सर्वाणि पश्येत्कार्याणि कार्यिणाम् ॥ २४ ॥
धर्माधर्मावेव केवलावर्थानर्थो न गोहिरण्यादिलाभोऽर्थस्तद्विपर्ययो वाऽनर्थः । किंतर्हि । धर्म एवार्थेऽनर्थश्चाधर्म इति बुद्धा हृदि निश्चित्य कार्याणि पश्येत् । अथवाऽ२० र्थानर्थावपि बोद्धव्यौ धर्माधर्मावपि । धर्मस्य सारता बोर्द्धव्याऽर्थस्य फल्गुता । अथवा यत्र महाननर्थः स्वल्पश्चाधर्मस्तत्रानर्थं परिहरेत् । शैक्यो हि महताऽर्थेनेषधर्मो दानप्रायश्चित्तादिना निकर्तुम् । सन्निपाते च व्यवहारिणां बहूनां वर्णक्रम आश्रयितव्यः । एष च दर्शने क्रम वर्णानां यदाऽर्थे तुल्यपीडा भवति । यदा त्ववरवर्णस्याप्यात्ययिकंकार्यं महद्वा तदा ' यस्य चात्ययिका पीडा' इत्यनेन न्यायेन तदेव प्रथमं पश्येत् न २५ क्रममाद्रियेत। राज्यस्थित्यर्थो हि व्यवहारनिर्णय इत्युक्तमतो न यथाश्रुतमाश्रयणीयम् ॥२४॥ बायैर्विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम् ॥
स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥ २५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१ य - साव्रतत्वात् । २फ-धर्मप्रधानंः । ३ फ-आसनं । ४ ख-ड-फ-क्ष-श्रेयः 1५ फ-क्ष-ख-ढभासनभेदः । ६ य-र - प्रमाणविशेषणं वा । ७ य-र - प्रतिभवति । ८ य-र - पौनदृक्त्यास्तदानखेवरीयः । ९ य-र - अस्थिरत्वात् । १० फ-क्ष-ख-ड- शोध्यौ धर्मावपि । ११ य र बाह्या । १२ य-र-शक्येन दिवार्थेनेषद - 1१३ य-र-निकर्तुम् । १४फ-क्ष-ख-ड-आदरणीयम् ।
For Private And Personal Use Only