SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । जातिमात्रोपजीवी वा कामं स्याद्राह्मणब्रुवः ॥ धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथंचन ॥ २० ॥ उक्तं ब्राह्मणैः सह धर्मनिर्णयं कुर्यान्मन्त्रिभिश्च मन्त्रज्ञैः तत्र मन्त्रिणां जातेरविशेषितत्वाच्छूद्रा अपि सभां प्रविष्टा मन्त्रित्वाद्नुज्ञातव्यवहारनिर्णयास्तंद्रता धर्मव्यवस्था कथंचि संस्कृतबुद्धयो ब्रूयुः । न च सर्वत्र व्यवहारे स्मृतिशास्त्रपरिज्ञानमुपयुज्यते येन तदभा- ५ वादर्थलुप्तत्वादनर्थकः शूद्रप्रतिषेध आशङ्कयेत । तथा हि जयपराजयकारणानि लौकिकप्रमाणवेद्यान्येव साक्ष्यादीनि अयं साक्षी धार्मिको न चैतस्य॑ केनचित्संबन्धेन संबन्धी अयं त्वसाक्ष्यसकृदृष्टव्यभिचारत्वादित्येवमादि शक्यते व्युत्पन्नबुद्धिना स्वयमुत्प्रेक्षितुं न स्मृतिशास्त्रैकगोचरः । अतः प्राप्तस्य प्रतिषेधोऽयं । न च मन्त्रित्वे पुरोहितवज्जातिनियमः । तथाहि ' तैः सार्धं चिन्तयेत् ' इत्युक्त्वा ततो ब्राह्मणेन सह चिन्तयेदिति १० तेनायमों यद्यपि कथंचिच्छूद्रो न्यायलेशात्समधिगच्छेत्तथापि राजाधिकरणे विवदतो मन्त्री निग्रहाधिकृतो वा न किंचित्प्रब्रुयात् । पूर्वश्लोकार्थप्रतिषेधः शेषतया व्याख्येयः । न हि जातिमात्रोपजीविना वैदुष्यादिगणरहितस्य धर्मप्रवक्तृत्वनियोगः शक्यो वक्तं तस्यैव रूपपरीक्षायां तस्माद्विषं भक्षय मा चास्य गृहे भुंक्था इतिवत्प्रतिषेधशेषभूतमिदमनुज्ञानं न पुनरनुज्ञानमेव । अत एव काममित्याह । कामशब्दप्रयोगे हि विधित्वं व्या- १५ हन्यते । अन्ये तु ब्रुवते । ब्राह्मणस्य प्रवक्तृत्वविधानात्तदा नियोज्यो विद्वान्स्याब्राह्मण इति क्षत्रियादयस्त्रयोऽपि वर्णा निषिद्धास्तत्रेह पुनः शूद्रप्रतिषेधो विद्वद्ब्राह्मणाभावे क्षत्रियवैश्ययोरभ्यनुज्ञानार्थ इति शेषं समानम् । जातिमात्रमुपजीवतीति मात्रशब्दोऽवधारणे । ब्राह्मणजातिमेव केवलामुपाश्रित्य जीवति नाध्ययनादीन् गुणविशेषान्निर्गुणत्वात् । ब्रुवशब्दः कुत्सायां ॥ २० ॥ यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम् ॥ तस्य सीदति तद्राष्ट्रं पङ्के गौरिव पश्यतः ॥ २१ ॥ पूर्वविधिशेषोऽयमर्थवादः । यस्य राज्ञः शूद्रो धर्मविवेचनं धर्मनिर्णयं करोति तस्य सीदति नश्यति राष्ट्र प्रनाः कर्दमे गौरिव ॥ २१ ॥ यद्राष्ट्र शूद्रभूयिष्ठं नास्तिकाक्रान्तमद्विजम् ॥ विनश्यत्याशु तत्कृत्स्नं दुर्भिक्षव्याधिपीडितम् ॥ २२ ॥ अयमपि पूर्ववदर्थवाद एव । प्रकरणाच शूद्रभूयिष्ठता विवादनिर्णये तु शूद्रविषया द्रष्टव्या । यत्र शूद्रा भूयांसो विवादनिर्णयकारास्तद्राष्ट्रमाशु विनश्यति दुर्भिक्षव्याधिपीडाभिः । १फ-ख-ड-क्ष-तद्गता । २ यर-चितवती । E-बमसन व्यवहारं कृतबुद्धयो ब्रूयुः . For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy