________________
Shri Mahavir Jain Aradhana Kendra
५६८
www.kobatirth.org
मेधातिथिभाष्यसमलंकृता ।
[ अष्टम
च्छ्राद्धकाले वृषलैर्न प्राप्तव्यम् " हन्तव्यो वृषलचौर " इत्याद्यासु क्रियासु मिथ्यादर्शी ब्राह्मण एव वृषलशब्देन ग्रहीतव्य इति । अतो वृषलत्वं मा प्रापमिति धर्मे न लोपयेन नाशयेदिति वृषलत्वाध्यारोपो निन्दा ॥ १६ ॥
२५
एक एव सुहृद्ध निधनेऽप्यनुयाति यः ॥ शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥ १७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
भयाद्धर्मातिक्रमो न कर्तव्य इत्येत् " धर्म एव हतो हन्ति " इत्यनेनोपदिष्टम् । स्नेहतो न कर्तव्य इत्यनेनोपदिश्यते । यत एकः सुहृद्धर्मस्तत्र स्नेहो भावनीयः । अन्योऽपि मनुष्यः सुहृद्धर्मः निधनेऽप्यनुयान् कार्यमपेक्ष्य जहाति नीवनं योऽपि स्यादत्यन्तमित्रं तस्यापि सौहार्द्दमा निधनात् । धर्मस्तु मृतमपि पुरुषमन्वेत्यतो न १० सुहृदपेक्षया मिथ्यादर्शनमुपेक्षा कर्तव्या
“ भार्या पुत्रो मित्रमर्थाश्च रिक्थं । नश्यन्त्येते देहनाशे नरस्य ।
Li
धर्मस्त्वेको नैनमुज्झत्यजस्त्रं । तस्माज्जह्यात्पुत्रदारान् न धर्मम् ॥ " यदन्यद्धर्माद्भार्यादि तत्सर्वं शरीरेण समं सह नाशं गच्छति । धर्मादन्यो मृतं न परित्रातुं कश्चित्समर्थ इत्यतः सुहृद्वान्धवानुरोधादपि धर्मो न हातव्यः ॥ १७ ॥ पादो धर्मस्य कर्त्तारं पादः साक्षिणमृच्छति ||
११
पादः सभासदः सर्वान्पादो राजानमृच्छति ॥ १८ ॥
न चैषा मनीषा कर्तव्याऽर्थिना प्रत्यर्थिना वाऽन्यतरस्य भूम्याद्य पह्रियते स एव भूम्यपहार दोषभाग्भविष्यति । वयं तु तदकारिणः किमिति दोषवन्तः स्यामो यतस्तस्यायं चतुर्धा विभज्यते । अर्थवादश्चायम् । न ह्यन्यकृतस्यैनसोऽन्यत्र गमनमस्ति । २० तेषामपि मिथ्यादर्शननिषेधतिक्रमादुत्पद्यते पापं मिथ्यालंबनं राज्ञः स्वयमपश्यतोऽप्यधिकृतराजस्थानीयादिदोषाद्दोषवत्वं यदि राजाधिकृतो मिध्याचरितेन ज्ञापितः पराजितं र्दुष्टं न गृह्णीते न च पुनः सम्यक् निर्णयं करोति ततः सोऽपि पापभाग्भवति । अधिकृतोपलक्षणार्थं वा राजग्रहणं । यदा राजा स्वयं मिथ्या पश्यति तदा दुष्यति । यदा राजस्थानीयस्तदा तस्य दोष इत्यर्थः ॥ १८ ॥
राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः । एनो गच्छति कर्त्तारं निन्दार्हो यत्र निन्द्यते ॥ १९ ॥
एष एवार्थो विपर्ययेणोच्यते । यत्र दोषवान् दोषं गोपयितुं न लभते प्रकटीक्रियते तदीयो दोषस्तत्र सर्वे साँधु संपद्यत इति । ' यत्र धर्म ' इत्यत आरम्य मिथ्यादर्शनोपेक्षणप्रतिषेधार्थं निन्दाप्रशंसाभ्यां शुभाशुभफलदर्शनार्था अर्थवादाः ॥ १९ ॥
१ फ-ख-ड-क्ष-प्रवेष्टव्यम् । २ य-र-उपदिष्टस्तेन हेतोः कर्तव्यः । ३ फ-ख-ड-क्ष- इत्यर्थः । ४ फ-ड-ख-क्ष-निषेधादुत्पद्यते । ५ य-र- पापमित्यालम्बनम् । ६ य-र-पराजितं न तद्राष्टान्निगृह्णीते। ७ ख र सर्वमिदं सद्यः संपद्यते । ८ य-र-प्रतिषेधार्थाः ।
For Private And Personal Use Only