SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६६ मेधातिथिभाष्यसमलंकृता। [ अष्टमः निर्णयः कर्तुं । तद्विज्ञानं तदधिकारक्षिप्तम् । यत्तु ज्ञात्वाऽन्यथा क्रियते तन्निवृत्तिरुपदेशान्तरविषया वक्ष्यति चैवमर्थ यत्नान्तरमपि वेदविदस्त्रयः राज्ञश्च प्रकृतो विद्वानिति । शास्त्रान्तरपरिज्ञानं तु व्यवहारेऽधिक्रियमाणस्यादृष्टाय स्यात् । नियोज्यो विद्वान्स्यादिति पठितव्यम् । नियुंज्यादिति नियुञ्जीत स्वराज्यतः उपसृष्टादिति हि कातीया आत्मनेपदं ५ स्मरन्ति ॥ ९ ॥ सोऽस्य कार्याणि संपश्येत्सभ्यैरेव त्रिभितः ॥ सभामेव प्रविश्याग्यामासीनः स्थित एव वा ॥ १०॥ सभ्यैरिति जातिविशेषानुपादानेऽप्युत्तरत्र विप्रग्रहणाद्राह्मणैः सहेति च पूर्वत्र ब्राह्मणग्रहणाबाह्मणा एव विज्ञायन्ते । त्रिग्रहणं त्वेकद्वयोः प्रतिषेधार्थ त्रिप्रभृतयस्त्विघ्यन्त एव । साक्षिप्रकरणे चैतद्वक्ष्यामः । सभामेव प्रविश्याग्यामिति । राजस्थानापत्या समां प्रविश्य स्थानासनेषु तद्धर्मेषु पुनर्वचनं प्रदर्शनार्थ धर्मान्तरनिवृत्त्यर्थ वा तेन राजस्थाने नोपविशति ॥ १० ॥ यस्मिन्देशे निषीदन्ति विप्रा वेदविदस्त्रयः॥ राज्ञश्चाधिकृतो विद्वान्ब्रह्मणस्ता सभां विदुः ।। ११ ॥ १५ उक्तं सभां प्रविश्य व्यवहारान्पश्येदिति । सभाशब्दश्च लोके गृहप्रासादविशेषे वर्तते “ मयेन निर्मिता दिव्या सभा हेमपरिष्कृतेति " । क्वचित्पुरुषविशेषसंघटिता सभेति तन्निवृत्यर्थं समाया लक्षणमाह । यत्र त्रयो ब्राह्मणा वेदविदः सन्निधीयन्ते । राज्ञश्च संबन्धी प्रकृतोऽधिकृतो विद्वानिति । अथवा प्रकृतोऽनन्तर श्लोके सन्निहितः सेह सभाऽभि प्रेता । ब्रह्मग्रहणं स्तुत्यर्थम् । यथा ब्रम्हणः सभा निरवद्यैवेयमपीति ॥ ११ ॥ धर्मो विद्धस्त्वधर्मेण सभा यत्रोपतिष्ठते ॥ शल्यं चास्य न कृन्तन्ति विद्धास्तत्र सभासदः ॥:१२॥ सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् ॥ अब्रुवन्विब्रुवन्वाऽपि नरो भवति किल्बिपी ॥ १३ ॥ अनेनार्थेन द्वयं विप्रतिषिध्यते । प्रतिपन्नाधिकारेण मिथ्यादर्शनं न कर्तव्यमन्येन २५ च क्रियमाणं नोपेक्षणीयम्। तत्रोभयथा दोषः । अब्रुवन्नन्येन विपरीतेऽनुष्ठीयमाने तूष्णी मासीनो हस्तक्षेपेण वा शास्त्रान्याविरुद्धं ब्रुवन्किल्विषी पापभाग्भवति । तेन नैषा प्रत्याशा कर्तव्या । द्वितीयः प्राडिवाको मिथ्या पश्यति । स एव योजयत्यहं तूष्णीभूत १ ख-ड-क्ष-नियुज्यतो स्पराज्यंतोप । सृष्टादिति; फ-जित...तोपसृष्टी- २ फ-अन्तरश्लोके । फ-सभा । ४ ज्ञा (?) For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy