________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६१ मेधातिथिभाष्यसमलंकृता।
[ अष्टमः प्रमाणान्तरादन्विष्यताम् । अथ तु लेख्यान्तरदर्शनेनान्येन वा हेतुना विशिष्टलेखक इति प्रत्यभिज्ञानं स्यादनुगलक्षितोऽपि न कश्चिद्दोषः । तत्र यदि लेखको न लिखेन्मयेदं लिखितमिति भवेदेव तादृशं लेख्यं परिपूर्णलक्षणं एषा च लेखकपरीक्षा तत्रोपयुज्यते। पत्रलेखकस्य साक्षित्वान्तर्भावोऽन्येषां साक्षिणामल्पत्वात् । यत्र त्वन्ये बहवः प्रत्ययिताः साक्षिणः स्वहस्तारूढाः सन्ति तत्र लेखकसंबन्धिनी प्रत्ययिता नोपयुज्यते । तथेयमपरा व्यवस्था ( नारदीये १११४५) "लिखितं लिखितेनैव साक्षिमञ्चैव साक्षिभिः। साक्षिभ्यो लिखितं श्रेयो लिखते न तु साक्षिणः" नास्यामपि व्यवस्थायां किंचिन्निबन्धनमस्ति । तथा हि द्विविधं लेख्यं । स्वहस्तकृतं परहस्तकृतं च । परहस्तकृतमपि द्विविधं । स्वहस्तलेखकलिखितमधिकृतलेखकलिखितं । तदेतत्परहस्तकृतं सर्वप्रकारं साक्ष्यात्मकमेव । तत्र साक्षिभ्यो लिखितमिति भेदानुपपत्तेः । इदं हि तस्य लक्षणम् ( याज्ञव० स्मृ. ८७ ) " साक्षिणः स्वस्वहस्तेन पितृनामादिपूर्वकम् । तत्राहममुकः साक्षी लिखयुरिति ते समम्" ॥ इति नाप्येकहस्तलिखितस्य प्रामाण्यमिष्यते । यथैकस्य साक्षित्व अथायं
भेदहेतुसाक्षिणो हस्तारूढास्त एव लेख्यमिति नानेन विशेषेण श्रेयस्त्वं भवति । १५ प्रत्ययिता हि श्रेयस्त्वे हेतुः । सा चोभयत्रापि परीक्ष्या । तस्मादीदृशे लेख्ये
साक्षिद्वैध्यन्यायो बहुत्वं परिगृह्णीयादिति । अधिकृतत्वमपि न विशेषः । परीक्षितोऽधिक्रियत इत्येतत्तत्राधिक्यम् । न च सर्वे राजाधिकृताः सुपरीक्षिता भवन्ति । यदि तु निरुपाधिस्तादृशश्चदत्यन्तगुणयोगात्स्यादुपेयादेवासौ एक एव संवादकत्यम् । तथा हि राना
ग्रहारशासनान्येककायस्थहस्तलिखितान्येव प्रमाणीभवन्ति । दातुः स्वाहस्तक्यं स्वयमभ्युप२० गमः । इयदस्मान्मय गृहीनमिदं चास्मै दातव्यमिति । तत्र यदि पश्चात् ब्रते न गृहीतमिति तदा पूर्वनिबद्धं ब्रुवाणैर्जीयते । तत्र साक्षिणामवसर एव नास्ति ।
ननु च यदीयाल्लेख्यादभ्युपगतमेतदनेनेत्यवगम्यते । उत्तरकालं च स एवाह न गृहीतमिति । तत्रोभयोरभ्युपगमयोः केन हेतुना पूर्वेणोत्तरा बध्येत न पुनरुत्तरेण
पूर्वा । तुल्यत्वाद्विरुद्धत्वसंशयः । ततश्च प्रमाणान्तरव्यापारणमेव युक्तम् । भवेदेवं यदि २५ तुल्यता स्यात् । न गृहीतमिति ह्यभ्युपगमो लोभादिनाऽपि संभवति । न त्वगृहीत्वाऽ
नुन्मत्तो गृहीतमिति ब्रूयात् । तत्रापि यदि ब्रूयात्प्रतिदत्त मिति लेख्यं तु न संपादितं असंनिधानात्प्रतिलेख्यं च न गृहीत लेखकासंनिवानात्कार्यान्तरेऽतिपातिनि त्वरावत्वान्नात्रास्त्येव प्रमाणान्तरस्य साक्ष्यादेरवसरः । यदपि " लिखितं लिखितेनेति ॥ नैषा परि. भाषा वस्तुसामर्थ्यायातामवगति बाधितं शक्नोति । दृश्यन्ते हि धनिकहस्तगतलेख्य. १फ-प्रत्यायतता । २ फ-धान्याध्यो ।
For Private And Personal Use Only