________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः ।
प्रत्यहं देशदष्टैश्च शास्त्रदृष्टैश्च हेतुभिः ॥
अष्टादशसु मार्गेषु निबद्धानि पृथक्पृथक् ॥३॥ पूर्वार्धन निर्णयहेतवः कथ्यन्ते । उत्तरेण विवादपदसङ्ख्यानिर्देशः ।' पश्यदिति' पूर्वश्लोकादनुषज्यते कार्याणीति च । प्रत्यहं पश्येत्कार्याणि प्रतिदिवसगमने व्यवहारनिर्णयः कर्तव्यः । हेतुभिरिति हेतुनिर्णयसाधनम् । स च द्विविधः । प्रमाणरूपो व्यवस्था- ५ रूपश्च । तत्र प्रमाणरूपोऽर्थनिर्णयहेतुः साक्ष्यादिः । व्यवस्थारूपो यतोऽसत्ये वाऽर्थनिश्चये व्यवहारः संतिष्ठते । यथा सत्यशपथ उभयानुमत एकः साक्षी यद्यर्थिप्रत्यर्थिभ्यामभ्युपगतप्रमाणभावः सम्यैरपरिक्षितोऽपि निर्णयहेतुतां प्रतिधपते । न च परीक्षितस्य पुंसो वचनादसत्यात्पूर्ववदर्थनिश्चयः । प्राधिकानापभ्युपगमेऽपि व्यवस्था हेतुर्भवति । सा च व्यवस्था द्विविधा । साधारण्यसाधारणी च । देशभेदाश्रयभेदात्साऽपि द्विविधा। १. अविरुद्धा विरुद्धा च । अविरुद्धा यथा केषांचिद्दाक्षिणात्यानामपुत्रा स्त्री भतेर्युपरते सभास्थाणुमुपारोहति तमुपारूढाऽधिकृतैरक्षपराहता कृतलक्षणा तत् सैवानन्तरं सपिण्डेषु कृच्छू लभते । तथोदीचां लभ्यमानां कन्यां याचमानाय भोजनं यदि दीयते तत इयं तुभ्यं दत्तेत्यनुक्तेऽपि प्रतिश्रुता भवति । विरुद्धा च कचिद्देशे । वसन्ते धान्यं युज्यते शरदि द्विगुणं प्रत्यादीयते । तथाऽनुज्ञातमोग आधिर्द्विगुणेऽपि तदुत्थधने प्रविष्ट आ मूल- १५ हिरण्यदानाद्भुज्यत एव । एषा हि "अशीतिभागं गृह्णीयात्" "कुसीदवृद्धिद्वैगुण्यं नात्येतीति" (श्लो. १५१ ) विरुद्धा। तत्र भेदाश्रया देशदृष्टहेतुशब्देनाभिहिताः शास्त्रदृष्टास्तु हेतवः शास्त्रे पठितास्ते च केचनशास्त्रकारैः कलितव्यवस्थाः केचिद्यथावस्त्ववस्थिता अनुदिताः । तत्र कल्पितव्यवस्था यथालेख्यं यथोपभोगः साक्षिणश्चानुमानं वस्तुनियतं " यथा नयत्यसू.
पातैर्मृगस्य मृगयुः पदम् " (श्लो. ४४) इति यद्यपि सर्व लौकिकं न शास्त्रकारवचनात्प्रा- २० माण्यं भवति । तथा लौकिकमेव तस्मिन् कविच्छास्त्रमाश्रयितव्यम्। या च यदीडशे चापराध इदं दिव्यं इयता च कालेन भोगः प्रमाणमिति लौकिकमपि तच्छास्त्रदृष्टमित्युक्तम् । तस्यां च व्यवस्थायां शास्त्रकाराणां मूले संभवति सा प्रमाणम् । या त्वसंभवतन्मूला सा नादरणीया । यथा लेख्यक्रमपाठः ( याज्ञव० स्मृ. व्य. ८८ ) "उभयाभ्यर्थितेनैवं मया ह्यमुकसूनुना । लिखितं ह्यमुकेनैव लेखकस्तस्त्रतो लिखेत् ॥” इति । १५ यस्यादावेव लेखकः ग्वनाम निवेशयेदिदं नामाहममुष्यपुत्रो लिखामीदमिति न कश्चिद्दोषः स्यात् । स ह्येवमर्थ नाम निवेशयत्यनेनेदं लिखितमिति लेख्यकमुपलिखितं यथा स्यात् । यदि ह्यसौ लेखकः प्रमाणान्तरेण प्रत्ययितो भवति ततस्तल्लिखितं प्रमाणं । यदि चासावात्मानं स्वगोत्रनाम्ना नोपलक्षयेत्ततः कस्य प्रत्ययिता
१ ख-ड-फ-क्ष-पूर्वार्धे । २ ख-ड-क्ष- अर्थे । ३ ख-ड-क्ष ऋक्थं । लभत-न लभते । ४ खडक्ष भेद्यत्रयात् । ५ ख-ड-क्ष प्रत्य यतता।।
[हिंसां यः कुरुते कश्चिद्देयं वा न प्रयच्छति। स्थाने ते द्वे विवादस्य भिन्नोष्टादशधा पुनः॥१॥]
For Private And Personal Use Only