________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
अध्यायः ]
आसीनः पश्येत् ।
आसीनो धर्मासनोपविष्टः । स्थितो निषिद्धगतिरनुपविष्ट एव । स्थानासनयोश्च व्यवस्थितो विकल्पः कार्यविशेषापेक्षः । गरीयस कार्ये बहुवक्तव्य उपविष्ट आसीनः लघीयसि स्वल्पवक्तव्ये स्थितः । क्रममाणस्य सर्वथा प्रतिषेधः । स हि मार्गावलोकनपरो नार्थिप्रत्यर्थिनोर्निपुणतो वचनमवधारयेत् । अन्ये त्वदृष्टार्थे तथा मन्यन्ते । तपस्विवब्राह्मणादिषु विवादिषु स्थितेषु स्थित आसीनेष्वासीनः । पाणिमुद्यम्येति उत्तरपाणिमुद्धृत्योत्थानं कृत्येत्यर्थः सूत्रकृतोऽयं व्यतिक्रमः सर्वदा विहितत्वाद्वसनोपव्यानमेतत् । तेनायमर्थो हस्त उत्क्षेप्तव्यो न पुनः समीपवर्तिनि संलग्नः कर्तव्यः । प्रश्ननिषेधावसरे च तेनाभिनेतव्यं न तु प्रव्याणादिना । अनेन व्यवहारदर्शनेन तात्पर्यं ख्यापितं भवति । प्रायेण हि पुरुषकार्येषु प्रयत्नवन्तो हस्तमुद्यच्छन्ति । यथासुखोपविष्टं व्रजति कर्तारं ततश्च परिजने तदेतद्राजा वित्तं न ददाति सभ्यैर्निर्भयैर्वयं जिता इति । पाणिग्रहणं बाहूपलक्षणार्थम् । केवलस्य हि हस्तस्य यावद्व्यवहारदर्शनं व्यापारणं पीडाकरम् । न चायमदृष्टार्थ उपदेशः ।
Acharya Shri Kailassagarsuri Gyanmandir
3
१५९
५
विनीतवेषाभरण इति पूर्वश्लो के बाह्याभ्यन्तरेन्द्रियविषयावघानार्थोऽभिहितः श्वग णानां शालीनतया मुखोपसर्पणार्थ उद्धृतवेषे हि रजोनिवृत्तिलक्षणया तथाविधानामप्रतिपंत्तिः स्यात् । अत उद्धृतवेषाभरणं न कथंचित्केशवसनविन्यासादिविशेषः । आभरणं १९ कर्णिकादि । तत्रोद्धृतवेष ऊर्ध्ववस्त्रो जवनरक्ताम्बरधारितेत्यादि उद्धृताभरणो दीप्तिमद्बहुरत्नालङ्कारो बव्हाहारश्च स ह्यादित्य इव दुर्निरक्ष्यिः सामान्यजनानां विशेषतोऽभि - युक्तानाम् । पश्येदिति । सभाप्रवेशस्य प्रयोजनमाह । पश्येद्विचक्षणः ।
For Private And Personal Use Only
०
अयं च राज्ञो दर्शनापदेशो दण्डप्रणयने यथास्थानार्थप्रतिपादनपर्यन्तो भविष्यति । तात्पर्यं तस्यैव रक्षाधिकारः प्रयुक्तः स्यात् । ईदृशस्य च दर्शनस्यान्येषामसं २० भावनादनधिकारः । सर्वेषां संशयच्छेदमात्रम् । फलं तु व्यवहारदर्शनं प्रायश्चित्तोपदेशवद्विदुषो ब्राह्मणस्यास्त्येव । उक्तं हि ' धर्मसंकटेषु ब्रूयादिति ' तथैकत्रयाणां कौणिज्यकर्षक पशुपालप्रभूतीनां स्ववर्गसामायिकार्थविप्रतिपत्तावन्यस्यां वोत्सुकनिर्णयादूतिरिति तथाविधव्यवहारदर्शने नियोगः । तथा हि पठितम् ( ना. स्मृ. प्र. ७ )
“कुलानि श्रेणयश्चैव गणाश्चाधिकृतो नृपः । प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस्तूत्तरोत्तरम् ॥ इति । २५ तत्र कुलानि बन्धुजनसमूहः । तैर्या व्यवस्था कृता ततो न विचलितव्यम् । अथ तत्र