________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
५५३
अन्येन प्रकारेणात्मानं रक्षितुमसमर्थः सर्वस्वं दत्वा दारानपि काले परित्यज्य वाग्यतस्थितो दारधनादि वर्जयित्वा धर्म करिष्यति । ये तु धनदारानुरोधेन विनश्यन्ति न तेषां धनदारादि दृष्टं नाप्यदृष्टं धर्माधर्मानाचरणात् । न च कौमारदारत्यागित्वम् । न त्यागप्रतिषेधस्यायं च वा जयति राजधर्मप्रकरणेऽपि नायमुक्तो दृष्टार्थत्वादन्यस्यापि द्रष्टव्यः ।
ननु च राजा राज्यं प्राप्य महाधनोऽश्वमेधादि करिष्यत्यतुलं च सुखमनुकरिष्य- ५ त्यतस्तु लोकः संक्रुष्टं किं करिष्यति नैष दोषोऽल्पस्यापि पावनानि कर्माणि सन्त्यधनस्यापि जपादयः विशेषनिमित्तानि धनान्येव न चेदमस्यामवस्थायां लोकसंक्रुष्टमिति न च सहसैतत्कार्यम् ॥ २१७ ॥
यतः
सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् ।।
संयुक्तांश्च वियुक्तांश्च सर्वोपायान्सृजेद्बुधः ॥ २१८ ॥ आपदो दैवमानुषाणि व्यसनानि तानि प्रकृतिविषयाणि युगपदुपजातानीत्यर्थमपि यथा स्युस्तथा संयुक्ताश्च सामपुरस्सरं दानं सामपूर्वकं भेदं सामदानभेदसहित दण्डमेव वा दानमेवेत्यादिकान्सर्वोपायान्विसृजेबुध इति । यत्र यत्प्राप्तं तत्समीक्ष्य विचार्य प्रयुञ्जीतेत्यर्थः । न तु विषण्ण आसीत ॥ २१८ ॥ कथमित्यपेक्षायामाह
उपेतारमुपेयं च सर्वोपायांश्च कृत्स्नशः॥
एतंत्रयं समाश्रित्य प्रयतेतार्थसिद्धये ॥ २१९ ॥ साधयेत्कार्यमात्मन इति पाठान्तरम् । तत्रोपेतारमात्मानं प्राप्य कार्य मित्रवत्साधयेत् । सर्वोपायाः समस्तव्यस्ता एव । अयमपि उपयसामान्यनिर्देशमाह । समाश्रित्या- २० ङ्गीकृत्य समर्थचिन्तनेनैतत्समावृतं भवति । किमर्थमुपायाः समर्थनामुमताः समर्थस्तथा किंयुक्तमिति विचार्येयता केनोपायनैषामिदं प्राप्नुयादिति । कृत्स्नश इति त्रयविशेषणं कृत्स्नमित्यर्थः । एवं च यो यदुपायसाध्यो यदा यथा युक्तस्तत्र तदा तथा प्रयुञ्जीत
खकार्यसिध्द्यर्थं उपाय एतानामवस्थानां चानन्त्यात्सर्वं तन्नेणाशक्यं वक्तुमिति समासेनोक्तमतः परीक्षामुपाचरेत् । उपेत्य विशेषभावतोऽप्याह
२५ " स तु युक्तो हि संधत्ते युक्त आत्मपराक्रमः ॥
तावुभौ नयसंपन्नौ स्तेनोऽप्ययसमन्वित" ॥ इति ॥ २१९ ॥ १ ण-जापादयः। २ फ-सर्वोपायाः। ३ फ-सदा ।
For Private And Personal Use Only