________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५२
मेधातिथिभाष्यसमलंकृता ।
[सप्तमः
हिरण्यभूमिसंप्रात्प्या पार्थिवो न तथैधते ॥ यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम् ॥ २१२ ॥ धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च ॥ अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ॥ २१३ ॥ प्राज्ञं कुलीनं शूरं च दक्षं दातारमेव च ।। कृतज्ञं धृतिमन्तं च कष्टमाहुररिं बुधाः ॥ २१४ ॥ आर्यता पुरुषज्ञानं शौर्य करुणवेदिता ॥ स्थौललक्ष्यं च सततमुदासीनगुणोदयः ॥ २१५॥
पुरुषाणां प्रकृतधर्माधर्मसंज्ञकेन दैवेन सुखदुःखोपभोगनिमित्तं साध्यते । अनिष्ट१० स्थानप्राप्ताश्चापौरुषेण शान्त्यादिकारणप्रकारेण समतामापद्यन्ते । इह स्थानस्थिता
अव्यभिचारानुगुणाः क्रियन्ते । पुरुषज्ञानलोकज्ञानपुरुषविशेषज्ञोऽनुरूपमुपकारी भवति । अनुवर्तते शूरः कार्यक्षमो भवति। कारुण्यगुणस्मयेन करुणावेदी दयालुमना लोभेन परिरक्षति । स्थूल लक्षः प्रभूतस्याप्यर्थमेषां सर्वकालं क्षमते ॥ २१५ ॥
क्षेम्यां सस्यप्रदां नित्यं पशुद्धिकरीमपि ॥ परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ॥ २१६ ॥
तादृशीमपि भूमिमविलम्बमानः परित्यजेत् । क्षेम्या आटविकादिभिरनभिभवनीया । नित्यमस्य प्रधानमुभयं बहुसस्याऽदेवमातृका च पशुवृद्धिकरी च जाङ्गलरूपत्वादबहुफलपत्रतृणत्वाच्चैवंगुणा हि भूमिर्वणिकृषीवलबहुला भवति दुर्भिक्षव्याधिरहिता कान्तार
मनुष्यात्मभरणा चेति चतुर्थ्याप्रकृतिपरित्यागे चोभयं न ततो ज्ञापयति न सहसा२० यधानां प्रकृति परित्यजेत्तस्यामवस्थायां किन्तु तां परित्यनेद्या मन्येत साक्ष्ये शेषां
प्रकृतिभिः प्रत्यादातुमिति यथा तु न मित्रकोशदण्डपरित्यागे नाविशेष प्रतिक्षणं यां मन्येत तदा गुणवतीमपि भूमिं त्यजेत् ॥ २१६ ॥
आपदर्थे धनं रक्षेदारान् रक्षेद्धनैरपि ॥ आत्मानं सततं रक्षेदारैरपि धनैरपि ॥ २१७ ॥
कृच्छप्रकारसाध्योऽयं नियमो भवति । आपदर्थे यथा मशकार्थे धूमो मशकानपनेतुमिति ज्ञायते तन्निमित्तं धनं रक्षेन्नान्यत्र धनरक्षायाः कार्यमस्ति । तत्त्वभुक्तफलं हि धनमिति । तथा हि तेन प्रतीक्ष्ययानमासनं दण्डं बिभर्ति । उपनप्यानुपगृह्णातीति । धनेनापि दारा रक्ष्याः । दारग्रहणं प्रणिधिसंबंधिप्रत्युपलक्षणार्थम् । आत्मा तु रक्ष्यः । १ण-समानापद्यते इष्टस्थान । २ क्ष-दा।
For Private And Personal Use Only