________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः।
५४९
दानं च प्रतिदानं प्रियकारकमेतदुभयं बहुश एवं प्रसिद्धमपि कालयुक्तं कालोपपन्नं क्रियमाणमभिमतानामर्थानां सुखावहं भवेदन्यथा च दुःखयतीत्यर्थः ।
- प्रशस्यते यस्मादपि क्वचित्काले किंचन प्रीतिं जनयति तदाऽपि नाल्पमशोभनं वा प्रीतिमुत्पादयति तस्मात्कालमपेक्ष्य दानादाने कार्य इति ॥ २०५ ॥ यत्किचिदतिक्रान्तं वक्ष्यमाणं किञ्चन तत्
सर्व कर्मेदमायत्तं विधाने दैवमानुषे ॥
तयोर्दैवमचिन्त्यं तु मानुषे विद्यते क्रिया ॥ २०६ ॥ समर्थादर्थकर्मकार्यफलं कर्म तत्सर्वमशेषमायत्तमाधिकं क्वापि विदधातीति विधानं कर्मफलं यदिशति तद्विशेषयति । दैवमानुषे देवधर्मादौ पूर्वकृतविहितप्रतिषिद्धविषये चात्मनः कार्यकर्मफलं यदि फलकर्मक्रिया दृष्टार्था नयानययोः । तथा च श्रुतिः “विधि. १० विधानं नियतिस्वभावः कालो ब्रह्मेश्वरः कर्म दैवं भाग्यानि पुण्यानि भूतांतयोगपर्यायनामानि पुराकृतस्य ।” स्मृतिरपि "देवमात्मकृतं विद्यात्कर्मवत्पौर्वदेहिकम् ।स्मृतः पुरुषकारस्तु क्रियते यदिहापरम्।।" इति।
दैवमानुषस्येति प्राप्ते मृतवशाईवे मानुषस्यापि कारणता विवक्षिता । अस्मिन्कार्य इदं सर्व क्रियाफलमायत्तं न दैवं पुरुषकाररहितं फलं ददात्यवश्यं हि तेन पुरुषप्रयत्नो- १५ ऽपेक्षितव्यः । न च पुरुषकारो देवेनेति दैवाच्च पुरुषकारनिरपेक्षात्फलस्यापि पुरुष सन्निपातो भवेदपि गर्भस्य असति गर्भ नियमैर्दैवसन्निपातात्फलसंभवोऽनुमेय एवं पुरुषप्रयत्नादपि यदि दैवनिरपेक्षा स्यात् यतो व्यायामे सति सर्वदा सर्वेषां स्यान्नैतदस्ति तस्मादुभयं कारणम् । तथा च व्यास आह ( महाभारते. सौ. प. २।२ ) *"आरम्भा मानुषाः सर्वे निदानं कर्मणोर्द्वयोः । देवे पुरुषकारे च परतोऽन्यन्नविद्यते॥"इति। २०
समानतन्त्रेऽपि “ दैवं नयानययोर्मानुषं कर्मलोकं पालयति " इति । अत्र दैवकारणा आहुर्दैवमेवात्र कारणं दृश्यन्ते हि जडक्लीबपनादयः पुरुषकाररहिता अपि सुखिनो निष्प्रतीकारा अन्योपाधिककर्मलभमानास्तथालंप्रतीकारा अपि कुणयोऽव्यङ्गशूराः प्रवीणाश्च शास्त्रे दक्षाश्चादुःखिनो यतमानाश्च तथा पुरुषकारनिरपेक्षं दैवमात्राभिधानादिनाशविनाशविनिपातादिभिरिष्टानिष्टफलमुत्पाद्यमानमुपलभन्ते। एवं च कृत्वा २५ परलोकहेतवः क्रियारम्भोपदेशात्सुतरामर्थवन्तो भवन्ति । तथा च यत्नेन पूर्वकृतानी
१ ण-स्थाने। २ ण-दृश्यतो । * “आबद्धामानुषाः सर्वे निबद्धा ” इति भारते पाटः ।
For Private And Personal Use Only